________________
अष्टमः सर्गः]
[१५३ तौ तयोः श्रेष्टिनोर्यत्नात् , संवर्धेते सहोदरौ ।। यथा बलक्षपक्षस्य, कौमुदी-कौमुदीपती ॥१८९।। अङ्गलीमुद्रिकानाम्ना, ख्यातयोरेतयोमिथः । विवाहं चक्रतुः श्रेष्ठिमुख्यौ तौ युग्मिनोरिव ॥१९०।। क्षिप्ता कुबेरदत्तेन, प्रेमवत्याः करेऽन्यदा।। निजनामाङ्किता मुद्रा, वैराग्यस्येव पत्रिका ॥१९१॥ वीक्ष्य मुद्रां स्वमुद्रावत् , प्रियं सा प्राह विस्मिता । नाम्नाऽङ्गेन च किं साम्यमनयोरावयोरिव ? ॥१९२॥ तदावां सोदरौ शङ्के, नानयोः श्रेष्ठिनोः सुतौ । आभ्यामपि क्वचिल्लब्धावज्ञानात् परिणायितौ ॥१९३।। सत्यमत्याग्रहादद्य, प्रष्टव्यौ पितरौ ततः । ज्ञातव्यमेव जन्म स्वमालोच्येति समुत्थितौ ॥१९४।। पितरावाग्रहात् पृष्ट्वा, मत्वाऽऽत्मचरितं च तत् । निश्चित्य सोदरत्वं च, पाणिग्रहमशोचताम् ॥१९५।। इति नि:सारसंसारवैराद् वैराग्यवासितौ । स्थितावधोमुखावेव, प्रगे कुमुदिनीन्दुवत् ॥१९६॥ ततः कुबेरमापृच्छ्य, पितरौ च विरक्तया । कुबेरदत्तयाऽग्राहि, जिनदीक्षाऽतिदक्षया ॥१९७।। स्वयं नामाङ्कितं मुद्रारत्नमस्थगयच्च सा ।
बोधं कुबेरदत्तस्य, मूर्तिमन्तमिवोज्ज्वलम् ॥१९८।। ६६ गतः कुबेरदत्तस्तु , भूरिक्रीतक्रयाणकः ।
मथुरायां पुरि स्फारव्यवहारविहारतः ॥१९९।। यस्यां कुबेरसेनायामुत्पन्नः स किलाऽभवत् । शशी निशीव कान्तोऽभूत् , तस्या एव स धिग् ! विधिम् ॥२००।। कालात् कुबेरसेनायां, कुबेरस्य सुतोऽभवत् ।
भवव्यामोहसर्वस्वसारेणेव विनिर्मितः ॥२०१।। १. नोर्गेहे, संव खंता० ॥ २. °त्यमित्या खंता० ॥
25
D:\maha-k.pm5\2nd proof