________________
5
10
15
20
25
१५२]
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् सुधर्मस्वामिना विद्याधरेणेवेति कष्टतः । कृष्यमाणो निषिद्येऽहं, किं त्वया विषयेच्छया ? ॥१७७॥ §§ इत्थं विषयसम्बन्धनिषेधेन निरुत्तरः । प्रभवः प्राह दन्तांशनासीरविदितं वचः ॥ १७८॥ कुटुम्बमिति सन्त्यज्य, निःशेषं निर्विशेषधीः । कुर्वन् जनकयोः पीडां, व्रीडामपि विमुञ्चसि ॥ १७९॥ उक्ते च प्रभवेणेति, श्रीजम्बूरवदत्तदा । महात्मन् ! श्रूयतामेकं, ज्ञातेयस्य कथानकम् ॥१८०॥ [ कुबेरदत्त-कुबेरदत्ताख्यानकम् ] आसीत् कुबेरसेनेति, मथुरायां पणाङ्गना । यदीयवदनस्येव, स्नपनप्रतिमा शशी || १८१ ॥ सा कदाऽप्यथ कष्टेन, तनयां तनयं च तौ । कीर्ति-प्रतापौ भूपासिलेखेवासूत नूतनौ ॥१८२॥ तौ त्याजयन्त्या कुट्टिन्या, निराकृत्य वचोविषम् । एकादशाहं सा हन्त !, पाययामास तौ पयः ॥ १८३॥ कुबेरदत्त इत्याख्याजुषं पुत्रस्य मुद्रिकाम् । पुत्र्या कुबेरदत्तेति, नामभाजं च सा व्यधात् ॥ १८४॥ मञ्जूषायामथो रत्नराजिभाजि न्ययोजयत् । तदपत्यद्वयं माता, कातरा कुट्टनीभयात् ॥ १८५ ॥ यमुनाम्भसि मञ्जूषां, सुखपेटामिवात्मनः । चिक्षेप वितरन्तीव, सा जलञ्जलिमश्रुभिः ॥ १८६॥ अथ सूर्यपुरोपान्ते, यमुनावारिवाहिता । पेटेयमिभ्ययुग्मेन, दृष्टा हृष्टान्तरात्मना ॥ १८७॥ आकृष्योद्धाट्य तां पेटामन्तर्वीक्ष्य शिशुद्वयम् । दायादाविव सर्वस्वमाददातां विभज्य तौ ॥१८८॥ १. °ति वेश्या क्वापि पुरे पुरा । यदी पाता० ॥
D:\maha-k.pm5\ 2nd proof