________________
अष्टमः सर्गः]
[१५१ किञ्चाऽऽलम्बनशाखायामीक्षामास सिता-ऽसितौ । आखू मूलं खनन्तौ स, निष्कारणखलाविव ॥१६५।। तस्य दूर्भूपवत् कूपद्वारस्थस्य विषाणिनः । स ददर्श कुटुम्बीव, क्लीबः प्रसृमरं करम् ॥१६६।। मछुच्छत्रोत्थिता हस्तिहस्ताहतिचले वटे । लग्नाश्च मक्षिकास्तस्मिन् , ऋजौ लुब्धा इवेश्वरे ॥१६७।। मधुमण्डाच्च्युतास्तस्य, वदने मधुबिन्दवः । निपेतुश्चातकस्येव, मन्दवारिदविपुषः ॥१६८॥ नासौ मधुरसास्वादसुखलालसमानसः । तदनेकविधं दुःखं, स्मरति स्म रति वहन् ॥१६९।। अथ व्योमपथक्रोडे, कोऽपि विद्याधरश्चरन् । तं वीक्ष्य करुणाविष्टः, क्रष्टुं बन्धुरिवाऽऽययौ ॥१७०॥ दत्तहस्ते ततस्तस्मिन्नुपहासिनि हर्षितः ।
स्थितिर्वा निर्गमो वाऽस्य, किं युक्तमिति कथ्यताम् ॥१७१।। $$ अथो हसन्नसावाह, कुमारमिति राजसूः ।
किं पृष्टं ? वेत्ति मूढोऽपि, निःसृतिस्तस्य शस्यते ॥१७२।। व्यक्तमित्युक्तवत्यस्मिन्नुपहासिनि हर्षितः ।
ऊचे जम्बूकुमारोऽपि, सुधाकवचितं वचः ॥१७३।। [मधुबिन्द्वाख्यानकोपनयः]
पुरुषो यः स संसारी, संसारस्तु महाटवी । मानुष्यं जन्म कूपश्च, नरकोऽजगरस्त्वधः ॥१७४॥ तथा कषायाश्चत्वारश्चतुर्दिक्षु भुजङ्गमाः । यमश्च मूनि मातङ्गो, मक्षिका व्याधयः पनः ॥१७५॥ छिन्तश्च द्रुलतामायुराखू पक्षौ सिता-ऽसितौ । प्रीणन्ति जन्तुं कष्टेऽस्मिन् , विषया मधुबिन्दवः ॥१७६॥
25
१. °ण्डच्यु' पाता० ॥ २. °स्मिन् , मधुबिन्दुविलोभिनः । स्थिति° खंता० पाता० ॥
D:\maha-k.pm5\2nd proof