________________
अष्टमः सर्गः]
[१५९ दन्तिनो दुर्बलस्यास्य, कान्तारान्तरपातिनः । असुरत्नं हृतं कालकिङ्करैस्तस्करैरिव ॥२६४।। दुष्टाः संवेष्टयामासुर्गतासुमथ तं द्विपम् । शृगालप्रमुखाः स्वामिमुक्तं पुरमिवारयः ॥२६५।। आहृत्याऽऽहृत्य मांसानि, विस्तीर्णं ते वितेनिरे । द्विरदस्य गुदे द्वारं, नरकस्येव दुर्धियः ॥२६६।। द्वारेण करिणस्तेन, करटाश्चरटा इव । सारमास्वादयामासुः, प्रविश्याऽऽशु सहस्रशः ॥२६७।। निगोद इव तत्रैव, तन्वानानां गताऽऽगतम् । जन्तूनामिव काकानां, कोऽप्यभव्य इव स्थितः ॥२६८।। अन्तरन्तर्ययौ काको, मांसान्यास्वादयन्नयम् । खनन् गजपतेरङ्ग, सुरङ्गाकृदिव क्षितिम् ॥२६९॥ करटेऽन्तर्गते तत्र, क्रूरे चौर इव क्षणात् । आरक्षक इव ग्रीष्मो, गुदद्वारममीमिलत् ॥२७०।। भूरिवर्षासु वर्षासु , परासुस्तदसौ द्विपः । क्रोडे वीचीकरैर्नीतो, मात्रेव सरिता सुतः ॥२७१॥ गतोऽन्तर्वारिधेरेव, रेवावारिप्रवाहितः । इभ: पोतनिभः काकं, साकं तमपि सोऽनयत् ॥२७२।। अथ तस्य गुदद्वारि, विशद्वारिविदारिते । निःससाराहिदष्टस्य, चिराज्जीव इव द्विकः ॥२७३।। आशु निःसृत्य संश्रित्य, वपुस्तस्य द्विपस्य सः । दिक्षु काको वराकोऽथ, साक्षेपं चक्षुरक्षिपत् ॥२७४।। अयं तोयमयं विश्वं, पश्यन् नश्यँश्चतुर्दिशम् ।
पुनर्व्यावृत्य तत्रैव, तस्थौ करिकलेवरे ॥२७५।। १. आहार्याऽऽहार्य मां° पाता० ॥ २. द्वारा करटिनस्तेन, पाता० ॥ ३. 'द्वारे, वि वता० ॥ ४. ाघुट्य तत्रै पाता० ॥
15
D:\maha-k.pm5\2nd proof