________________
[१४९
अष्टमः सर्गः]
इत्यालोच्य मिथस्ताभ्यां, पितृभ्यां तन्मतं वचः । अकारि च मुदा पाणिग्रहोपक्रमणक्रमः ॥१४१।। युग्मम् ।। अथ जम्बूकुमारेण, ज्ञापिते स्वव्रतोद्यमे । पितॄन् किङ्कार्यतामूढानाहुस्तानिति कन्यकाः ॥१४२।। इहापि परलोकेऽपि, जम्बूस्वामी गतिः स नः । मार्तण्ड इव मार्तण्डग्रावपावकरोचिषाम् ॥१४३॥ स मन्मथपथेऽस्माभिस्तेनाऽऽत्माध्वनि वा वयम् । नेतव्याः सत्यमित्यस्तु , स्पर्धाबन्धः परस्परम् ॥१४४॥ महासतीषु धन्यानां, कन्यानां वचनैरिति । तेऽप्युद्दिश्य विवाहस्य, दिनमानन्दिनः स्थिताः ॥१४५।। अथाऽऽननेन्दुनिर्गच्छदुलूलुसुधया तया । स्त्रीषु सञ्जीवयन्तीषु , भवदग्धं मनोभवम् ॥१४६।। बन्धूनामुपरोधेन, विरोधेन तु चेतसः । लग्ने जम्बूकुमारोऽयमुपयेमे कुमारिकाः ॥१४७।। स हताभिः स्मरशरैः, सह ताभिस्तदा वदन् ।
गतस्पृहो गृहावासे, वासवेश्मन्यवास्थित ॥१४८।। $$ इतश्च विन्ध्यो विन्ध्याद्रौ, व्यधाज्जयपुरेश्वरम् ।
पुत्रं प्रभमथ ज्येष्ठः, प्रभवो निरगात् क्रुधा ॥१४९।। चौरपञ्चशतीयुक्तः, कुर्वन्नुवा॒ स चौरिकाम् । जज्ञेऽवस्वापिनी-तालोद्घाटनीविद्ययोः पदम् ॥१५०।। गृहं तदा तगागत्य, जम्बूस्वामिनिषेवितम् । विद्ये प्रयुज्य तन्वानश्चौर्यं स्तम्भमवाप सः ॥१५१।। केनाहं स्तम्भितो भृत्यैः, सहितोऽपीति चिन्तयन् । दृशं प्रतिदिशं चौरग्रामणीरक्षिपत् ततः ॥१५२॥
15
20
१. °स्तासां, पितृभिः तन्म° पाता० ।। २. स्पर्धब° खंता० पाता० ॥ ३. °दुल्लोलसु पाता० ।। ४. °दग्धम° पाता० ।। ५. °न्यवस्थितः खंता० पाता० ॥
D:\maha-k.pm5\2nd proof