________________
१४]
[सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् सत्वर: पितरौ नत्वा, जम्बूः कम्बूल्लसद्यशाः । स जगादायमादाय, व्रतं प्रीतो भवाम्यहम् ॥१२८।। इत्याकर्ण्य ततः कर्णतप्तत्रपुनिभं वचः । सुतं व्रतनिषेधाय, पितरावूचतुस्तराम् ॥१२९।। एकस्त्वमावयोर्दीपो, भानुभू-नभसोरिव । त्वां विना वत्स ! नितमां, तमांस्यभिभवन्ति नौ ॥१३०।। मनोरथशताहूतस्तपोभिरतिदुष्करैः । दुर्लभस्तात ! लब्धोऽसि, त्वमुदुम्बरपुष्पवत् ॥१३१।। तच्चिरोद्भूतमस्माकं, मनोरथमहीरुहम् । विदग्ध ! दग्धुं किं नाम, वाग्ज्वालाभिः प्रगल्भसे ? ॥१३२॥ ययाचिरे चिरेणैताः, दासीकृतरतिद्युतः । अष्टौ याः कन्यकास्तुभ्यं, त्यजस्येताः कुतः सुत ! ? ॥१३३॥ विवाहमण्डपान्तस्त्वं, वधूभिरभितो वृतः । वशाभिरिव यूथेशो, मानसं नौ प्रमोदय ॥१३४।। त्वत्सङ्गसुभगम्मन्याः, कन्याः परिणयन्निमाः । कुतूहलं श्रुतोलूलुरावयोः पूरयाऽऽवयोः ॥१३५।। आशानामिव तत् तासामन्तश्चन्द्र इव स्फरन् । पुण्यवन्नावयोर्नेत्रकुमुदानां मुदं कुरु ॥१३६।। श्रुत्वा पित्रोरिमां वाचमचलव्रतनिश्चयः । उचितज्ञः कुमारोऽयमभ्यधान्मधुरं वचः ॥१३७।। तावदाचर्यत ब्रह्मचर्याय नियमो मया । कुतूहलाय वां कार्य, पाणिग्रहणमप्यदः ॥१३८।। विवाहस्य द्वितीयेऽह्नि, ग्रहीष्यामि पुनतम् । क्षेप्यस्तद्वत्सवात्सल्यान्नाहं भवदवानले ॥१३९॥ आसां मृगीदृशां प्रेमस्थेमसम्बन्धबन्धने ।
पतित्वेन पतित्वाऽसौ, क्व मोक्षाय यतिष्यते ? ॥१४०।।
१. स्वसङ्ग वता० । स्व:सङ्ग पातासं° ॥ २. तोल्लोलरा° पाता० ॥ ३. पतित्वे विनिपत्यासौ, पाता० ॥
25
D:\maha-k.pm5\2nd proof