________________
[१४७
अष्टमः सर्गः]
श्रुते तस्मिन् समायाते, निर्यातं नगरादथ । जनैर्भृङ्गैरिवाम्भोजादुदितेऽम्भोजबान्धवे ॥११४।। श्रीसुधर्मगणाधीशं, नमस्कर्तुं समागमत् । तदा जम्बूकुमारोऽपि, समारोपितसम्मदः ॥११५।। तदा मुनीन्दुः प्रारेभे, देशनां दशनांशुभिः ।
पुरो जम्बूवपुः सिञ्चन् , प्रसादैरिव देहिभिः ॥११६।। ६ "भवेद् भवार्णवः पुंसां, सुतरः सुतरामसौ ।
न्यञ्चनोदञ्चनोग्राश्चेन्न स्युः श्रीचयवीचयः ॥११७॥ मेघानामिव लोकानामायुगलति नीरवत् । चपलेव चला लक्ष्मीः, पाण्डुतेवैति विश्रसा ॥११८॥ तदायुषा च लक्ष्या च, वपुषा चास्थिरात्मना । चिरस्थिरतरं रत्नत्रयं ग्राह्यं विवेकिना ॥११९॥ तत्रोपाश्रय-भैषज्य-पुस्तका-ऽन्नां-ऽशुकादिभिः । साहाय्यं ज्ञानिनां तन्वन् , ज्ञानमाराधयेद् गृही ॥१२०॥ सङ्घवात्सल्य-जैनेशवेश्म-यात्रा-ऽर्चनादिभिः । प्रभोः प्रभावSस्तीर्थं, सम्यक् सम्यक्त्वमर्जयेत् ॥१२१॥ भक्त्या चारित्रपात्रेषु , तथाऽऽवश्यककर्मभिः । तपोभिरपि चारित्रं, गृहमेधी समेधयेत् ॥१२२॥ काले पाठादिभिर्ज्ञानमशङ्काद्यैश्च दर्शनम् । मूलोत्तरगुणैः शुद्धैश्चारित्रं भजते यतिः ॥१२३॥ इति रत्नत्रयाल्लेभे, हतमोहतमोभरैः । चिराद् गृहस्थैः सद्योऽपि, यतिभिः शाश्वतं पदम् ॥१२४॥ ये तु मोहग्रहग्रस्ताः, प्रमादस्य वशंवदाः ।
अशरण्यैर्भवारण्ये, भ्रमितव्यं सदाऽति तैः" ॥१२५॥ Sजम्बूरम्बूज्ज्वलं पीत्वा, घनादिव गुरोर्वचः ।
महीरुह इवामुञ्चत् , सद्यो भवदवव्यथाम् ॥१२६।। नत्वा मुनीन्द्रमुन्निद्रव्रतग्रहमहोद्यमः ।
जगामायममायः सन् , सदनं मदनं द्विषन् ॥१२७।। १. प्रमोदैरि खंता० ॥
D:\maha-k.pm5\2nd proof