________________
१४६]
10
[सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् असौ जम्बूविचारस्य, प्रकमे समभूदिति । पितृभ्यां विहितो जम्बूकुमार इति नामतः ॥१०१।। 8 पद्मावती समुद्रस्य, प्रेयसी सुषुवे सुताम् ।
समुद्रश्रियमुन्मुद्रचन्द्रसान्द्रमुखत्विषम् ॥१०२।। समुद्रदत्तप्रेयसा, जज्ञे कमलमालया । नन्दनी किल पद्मश्रीः, पद्मश्रीदस्युलोचना ॥१०३।। पुत्री सागरदत्तस्य, जनिता विजयश्रिया । पद्मसेनेति निश्छद्मसेनेव स्मरभूभुजः ॥१०४।। सुता कुबेरदत्तस्य, दयितायां जयश्रियाम् । आसीत् कनकसेनेति, कनकस्पर्धिदीधितिः ॥१०५।। विद्युन्मालिसुरस्यैताश्चतस्रश्चित्तवल्लभाः । गृहेषु श्रेष्ठिनामेषामवतेरुर्दिवश्च्युताः ॥१०६।। तथा कुबेरसेनस्य, नभःसेनेति नन्दनी । सञ्जाता कमलवतीकुक्षिपल्वलवारला ॥१०७|| श्रेष्ठिश्रमणदत्तस्य, सुषेणाकुक्षिसम्भवा । सुताऽभूत् कनकश्रीस्तां, न कः श्रीवदमन्यत ? ॥१०८।। सुषुवे च सुषेणस्य, प्रिया वीरमती पुनः । सुतां कनकवत्याख्यां, साक्षादिव दिवः श्रियम् ॥१०९।। वसुपालितगेहिन्या, सुषुवे जयसेनया । जयश्री रतिरूपस्य, जयश्रीरिति नन्दनी ॥११०॥ दिक्पालराजधानीनामष्टौ मूर्ता इव श्रियः । सेवन्ते तत्पुरं बाला, जैत्रं जम्बूगुणेन ताः ॥१११॥ दातुं ताः पितृभिर्जम्बूस्वामिने ऋषभोऽर्थितः । सर्वं मेने न कस्तुल्यगुणसङ्गाय कौतुकी ? ॥११२।। तदानीं च महामोहमेघसन्दोहमारुतः ।
श्रीसुधर्मा समायासीद् , वैभारगिरिकाननम् ॥११३।। १. °मेवमव खंता० ॥ २. वारिमती पाता० ॥ ३. गुणानताः खंता० ॥
15
20
25
D:\maha-k.pm5\2nd proof