________________
[१४५
अष्टमः सर्गः] [जम्बूस्वामिचरितम्]
राजन् ! राजगृहेऽत्रैव, ऋषभश्रेष्ठिसूरसौ । जम्बूनामाऽवसपिण्यां, भावी चरमकेवली ॥८८॥ तद् विद्युन्मालिनः कान्ताश्चतस्रो विनयाऽऽनताः । तीर्थेशमिति पप्रच्छुः, काऽस्माकं भाविनी गति: ? ॥८९॥ श्रेष्ठिनां तनुजीभूय, ययमप्यस्य योषितः । भविष्यथ पुरेऽत्रैव, तदिदं विभुरभ्यधात् ॥९०॥ अथ तद्दिवसादेव, स देवः सप्तमेऽहनि । धारिण्या ऋषभश्रेष्ठिपत्न्याः कुक्षाववातरत् ॥९१॥ पूर्णैरथ दिनैः श्रेष्ठिप्रिया सुतमसूत सा । आनन्दामृतरोचिष्णुः, सरसीव सरोरुहम् ॥१२॥ पुरा नगरेऽत्रैव, वैभारगिरिकानने । सुधर्मस्वामिनं नन्तुं , गताऽभूदृषभप्रिया ॥९३।। सा शुश्राव तदा सिद्धपुत्रं विद्याधरं प्रति । कथ्यमानं गणभृता, ध्रुवं जम्बूविचारणम् ॥९४।। ततो जम्बूविचारान्ते, सा पप्रच्छ गणेश्वरम् । भविष्यति तनूजन्मा, कथं मे ? कथ्यतामिति ॥९५।। गणेशं वीक्ष्य सावधप्रश्नतो मौनमास्थितम् । साऽभाषि धारिणी शीलधारिणी सिद्धसूनुना ॥१६॥ सति ! व्रतिपतिर्नेदं, सावद्यं कथयिष्यति । भवत्यै कथयिष्यामि, सुतार्थमहमप्यदः ॥९७।। मम वाचा त्वमाचाम्लान्यष्टोत्तरशतं कुरु । पुत्रस्तदन्ते भावी ते, सिंहस्वप्नेन सूचितः ॥९८॥ इत्याकर्ण्य गृहं गत्वा, सा सर्वं तत् तथा व्यधात् । अपश्यच्चान्यदा स्वप्ने, सिंहमुत्सङ्गसङ्गतम् ॥९९॥ प्रातश्च पत्युराख्याय, वितेने जिनपूजनम् । अथ प्राचीव भास्वन्तं, काले सुतमसूत सा ॥१००।
D:\maha-k.pm5\2nd proof