________________
१४४]
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् मुनि सागरदत्ताख्यमात्तभिक्षं विलोकयन् । स्वर्णवृष्टिं सुरैः सृष्टां, दृष्ट्वा हृष्टोऽभवत् तदा ॥७६॥ युग्मम् ।। अथ स्थानगतं पापैतारणं कृतपारणम् । गत्वा नत्वा मुनि राजाङ्गजोऽन्ते समुपाविशत् ॥७७।। ततोऽसौ देशनां तेने, मुनिर्मानेभकेशरी । सर्वास्तथा कथा: पूर्वजन्मजाता न्यवेदयत् ।।७८।। सोऽपि भूपाङ्गभूः श्रुत्वा, विशुद्धः प्रतिबुद्धवान् । नत्वा यतिं गतः प्रष्टुं , पितरौ निश्चितव्रतः ॥७९॥ पितृभ्यामननुज्ञातस्ततश्चाकृतभोजनः । गत्वा पौषधशालायां, तस्थावस्थानमंहसाम् ॥८०॥ इभ्यात्मजेन भूभर्तुरादेशाद् दृढधर्मणा । श्राद्धेन बोधितोऽभुङ्क्त, षष्ठादाचाम्लपारणः ॥८१।। ईदृक्तपःप्रकाशी च, प्राशुकाशी व्रतीव सः । तत्र शुश्रूषितस्त्रुट्यत्कर्मणा दृढधर्मणा ॥८२॥ अथ द्वादशवर्षान्ते, भावनियूंढसंयमः । विद्युन्मालीति देवोऽभूद् , ब्रह्मलोकेऽद्भुतद्युतिः ॥८३॥ श्रीवीरः समवासार्षीत् , पुरे राजगृहेऽन्यदा । तदीयपदपद्माली, विद्युन्माली तदाऽभवत् ॥८४॥ शक्रादिसुरचक्रेषु , काचेष्विव मणिर्व्वलन् । अकरोढुष्करं किं किं, देवासौ पूर्वजन्मनि ? ॥८५।। श्रेणिकक्षोणिकान्ते, पृष्टः स्पष्टमिति प्रभुः । तद् विद्युन्मालिनः सर्वं, पूर्ववृत्तं न्यवेदयत् ॥८६॥ युग्मम् ।। भविष्यति भुवि स्वामिन् !, कीदृशोऽयमतश्च्युतः ? । इति पृष्टे नृपेणाऽऽह, पुनस्त्रिभुवनप्रभुः ॥८७॥
15
१. °क्षं व्यलोकयत् वता० ॥ २. स्थाने गतं पाता० ॥ ३. पवारणं खंता० ॥ ४. देवोऽसौ खंता० पाता० ॥
D:\maha-k.pm5\2nd proof