________________
अष्टमः सर्गः ]
आलोच्य तद् गुरोरग्रे, तदुग्रं स व्रतं व्यधात् । येनाजनिष्ट सौधर्मे, प्रभाभिर्भासुरः सुरः ॥६३॥ क्षेत्रे महाविदेहेऽथ, विजये पुष्कलाभिधे । देशे विश्वाप्रिये पुण्डरीकिण्यां पुरि चक्रिणः ||६४ ||
पत्न्यां यशोधराख्यायां, वज्रदत्तस्य नन्दनः ।
नाम्ना सागरदत्तोऽभूद् भवदत्तो दिवश्च्युतः ||६५॥ युग्मम् ॥
,
अथ पित्रा पवित्राङ्गीर्धन्याः कन्याः सहस्रशः । पुत्रः शत्रुद्रुमद्रोहकरिणा परिणायितः ||६६||
स समन्तात् समं ताभिः, क्रीडन् भूपाल भूर्बभौ । मूर्तिमद्भिरिव स्फीतैः, स्वैर्भोगफलकर्मभिः ॥६७॥ एकदाऽनेकदारान्तर्वर्ती मन्दिरमूर्धनि । स्थितोऽन्तरिक्षे सोऽद्राक्षीत्, स्वर्णवर्णं पयोमुचम् ॥६८॥ तमाक्रान्तनभश्चक्रं, शिखाशिखरशेखरैः । पश्यन् मेरुमिव स्मेरसमाजः समजायत ||६९ ॥ क्षणाद् वातोद्धते धाराधरे विधुरतां गते । भावेषु भङ्गुरीभावं, कुमारः स व्यचारयत् ॥७०॥ प्रतिबुद्धः स्वयं बुद्ध्या, व्रतं जग्राह साग्रहः । ततः सागरदत्तोऽयं, सूरेरमृतसागरात् ॥७१॥ कृपाणतीव्रताजैत्रव्रतायत्तेन तेन तत् । अज्ञानमवधि ज्ञानमवधिख्याति बिभ्रता ॥७२॥ तत्रैव विजये वीतशोकानामनि पत्तने । भवदेवोऽभवच्च्युत्वा दिव: शिव इति श्रुतः ॥ ७३|| पुत्रः पद्मरथस्याथो, वनमालाङ्गसम्भवः । कुमारः सुकुमाराभिः, कुमारीभिर्विवाहितः ||७४|| युग्मम् ॥
स्थितः सह महेलाभिः सोऽन्यदा सदनोपरि । नाम्ना कामसमृद्धस्य, सार्थवाहस्य वेश्मनि ॥७५॥
१. 'स्यासौ, वन खंता० पाता० ॥
D:\maha-k.pm5 \ 2nd proof
[ १४३
5
10
111
15
20
25