________________
१४०]
10
[सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् अब्जखण्डं त्रियामार्तं, मार्तण्ड इव दूरतः । स्वजनं स्मेरयन्नग्रे, शमभूः समभूत् ततः ॥२४॥ ते तु हेतुममुं पुण्यनैपुण्यस्य मुनिं जनाः ।। नमश्चक्रुनिचक्रुश्च, दुरितं स्फुरितोद्यमाः ॥२५॥ मुनिना धर्मलाभोऽथ, निर्मलाभो विनिर्ममे । तेषां तमस्ततिच्छेदी, दिशामिव निशाधवः ॥२६॥ अस्ति मे गुरुरासन्नग्रामे सन्नतमाः शमी । भोक्तव्यं तत्र गत्वेति, स जगाद जनं मुनिः ॥२७॥ तदाऽऽशु प्राशुकान्नेन, स यति प्रतिलाभितः । उत्सुकस्तैः सदाचारसहकारशुकैः स्वकैः ॥२८।। नागिलायाः किलाऽऽयाम-रम्याक्ष्या वक्षसि स्वयम् । तन्वानो मण्डनं तन्व्याः , सम्पूर्णाखिलभूषणम् ।।२९।। बन्धुमागतमाकर्ण्य, वधू मुक्त्वाऽर्धमण्डिताम् । द्विपो वल्लीरिव सखीरवधूयाग्रतो गताः ॥३०॥ स्फूर्तिमन्तर्वहन् धर्मं, मूर्तिमन्तमिवाग्रजम् । भवदेवो जवादेव, जगाम च ननाम च ॥३१॥ विशेषकम् ॥ सर्पिषः कल्पनीयस्य, पात्रं भ्रात्राऽपितं करे । प्रस्थानकं व्रतस्येव, भवदेवः सुधीर्दधौ ॥३२॥ प्रचचाल स चालस्यमुक्तो मुनिमतल्लिका । अस्तोकबन्धुलोकेन, परितः परिवारितः ॥३३॥ दूरतो वलितास्तस्य, नत्वा नत्वा च बान्धवाः । समीरे सम्मुखे सिन्धुप्रवाहस्येव वीचयः ॥३४॥ बाल्यक्रीडादिवार्ताभिरनार्ताभिः प्रवर्तकम् । घृताज्यभाजन: साधुमनुजस्त्वनुजग्मिवान् ॥३५।। आनिनाय भवान् बन्धुं , मानिनायक ! दीक्षितुम् ? । इत्यथ व्रतिभिः पृष्टः, प्राप साधुर्गुरोः पुरः ॥३६।।
15
20
25
१. बन्धवः पाता० ।।
D:\maha-k.pm5\2nd proof