________________
अष्टमः सर्गः ]
एतयोर्भवदत्तश्च, भ॑वदेवश्च विश्रुतौ । अभूतां निहताशर्मधर्मकर्मौ
॥११॥
इभ्यः सुस्थितसूरिभ्यः, स्वैरं वैराग्यतोऽन्यदा । भवदत्तो निजगृहे, निःस्पृहो जगृहे व्रतम् ॥१२॥ अनुसूरिपदद्वन्द्वमथासौ पृथिवीतले । बभ्राम भ्रामकाश्मानमश्मसारवदन्वहम् ॥१३॥ एकदाऽऽत्मद्वितीयः सत्सूरीनापृच्छ्य कश्चन । निजग्रामे जगामेच्छन्, बन्धुं व्रतयितुं व्रती ॥१४॥ साधुः पाणिग्रहारम्भग्रहिलेन कनीयसा । न वीक्षितोऽप्यसौ हर्षप्रकर्षान्धेन बन्धुना ॥ १५॥ कनिष्ठमथ धिक्कुर्वन्, गुर्वन्तिकमगान्मुनिः । विलक्षो रविलक्षोरुतपस्तेजास्तनोतु किम् ? ॥१६॥ गुरोः पुरो मुनौ तस्मिन्, तत् तथ्यं कथयत्यथ । भवदत्तोऽवदत् तोषिन् !, धिक् ! तत्कठिनतामिति ॥१७॥ तदोचे मुनिनाऽन्येन, भवदत्तो वदन्नदः । भ्राताऽस्य कठिनस्त्वं तन्मृदुं दीक्षय सोदरम् ॥१८॥ सन्धासन्धानतोऽभाषि, भवदत्तेन तन्मुदा । इदं बुध ! विधातव्यं, गुरौ मगधगामिनि ॥१९॥ विहरन् मिहिरश्रीको, देशाद् देशान्तरं क्रमात् । अगमन्मगधान् सूरिर्नभोभागानिवामलान् ॥२०॥ स्वग्रामं भवदत्तोऽथ, ययावेको गुरोर्गिरा । भयाय नासहायत्वं, सिंहस्येव महामुनेः ॥ २१ ॥ नागिलां वासुकीजानेर्नागदत्तस्य नन्दनीम् । कनीयान् भवदेवोऽग्रे, पाणौ जग्राह साग्रहः ॥ २२॥ जनान्मत्वेति तत्त्वज्ञः, किङ्कर्तव्यतया जडः । मन्दमन्दममन्दश्रीर्निजं धाम जगाम सः ॥२३॥ १. भाव° वता० ॥ २. सन्, सू° खंता० ॥
D:\maha-k.pm5\ 2nd proof
[ १३९
5
10
111
15
20
25