________________
5
10
15
20
अष्टमः सर्गः ॥
जितचिन्तामणिप्रायरत्नसम्भववैभवम् । जयत्यमेयमाहात्म्यं, ब्रह्मचर्यमयं महः ॥१॥ तदेतद् दुरितध्वान्तबन्धविध्वंसनौषधम् । त्रैधं समिद्धमाधेयं, श्रीजम्बूस्वामिना यथा ॥२॥ [ जम्बूस्वामिपूर्वभवचरितम् ]
$$ मगधोऽध्वगधोरण्याः, श्रान्तिहर्ता श्रियः पदम् । अस्ति त्रिविष्टपादेशो, देशो भूखण्डमण्डनम् ॥३॥ छायोच्छेदितसन्तापाः, स्फुरच्छत्राद्भुतश्रियः । भूपरूपा बभुर्यत्र, तरवः सरवद्विजाः ॥४॥ यस्मिन् हरन्ति पर्यन्तहरितः सरितः सदा । भूमेः श्यामांशुकस्यूतप्रान्तकान्तदुकूलताम् ॥५॥ ग्रीष्मेऽपि वारि यच्छन्तो, महिषैः स्थानपूरुषैः । यस्मिन्नदुर्न दुर्भिक्षमम्भसां जातुचिद् घनाः ||६|| काष्ठासु दशसु ग्रामः, सुग्राम इति विश्रुतः । तदन्तर्विद्यते हृद्यविद्यतेजस्विपूरुषः ॥७|| यल्लक्ष्मीलेखया शेष-लेखपुर्यौ विनिर्जिते । स्थानं निम्नं च शून्यं च जग्मतुर्लज्जिते ध्रुवम् ॥८॥ राष्ट्रकूटान्वयः श्रीमानार्यवानार्यवागभूत् । तत्राद्रिकूटतुल्यान्नकूटः कौटुम्बिकाग्रणीः ||९|| तस्याजनि गुणैर्वर्या, मर्यादाजलधेर्वधूः । जाह्नवीशुभ्रनीरेव, रेवती शीलशालिनी ॥१०॥
१. 'ण्डभूषणम् खंता० पाता० ॥ २. °न् भजन्ति खंता० पाता० ॥। ३. 'द्यस्तेज पाता० ॥