________________
अष्टमः सर्गः]
[१४१
प्रणम्य रम्यचारित्ररत्नरत्नाकरं गुरुम् । मुनियवेदयद् बन्धुं , समायातं व्रताय तम् ॥३७।। सत्यमित्यथ पृष्टोऽसौ, भवदेवोऽपि सूरिभिः । ज्यायानृषिम॒षाभाषी, मा भूदित्यन्वमंस्त तत् ॥३८।। ततः स्वबन्धुसम्बन्धबन्धाबद्धचेतसः । नागिलागुणरक्तस्य, तस्य दीक्षां ददौ गुरुः ॥३९॥ भवदत्तप्रयुक्तेन, नियुक्तो गुरुणा स्वयम् । एकेन मुनिना साकं, ग्राममन्यं जगाम सः ॥४०॥ अद्यापि भवदेवोऽयं, नायातीति समागताः । बन्धवो भवदत्तेन, साक्षाद् गत इतीरिताः ॥४१॥ बन्धूपरोधरुद्धात्मा, भवदेवो व्रते स्थितः । नित्यं ध्यायति चित्ते, नागदत्तसुतां तु ताम् ॥४२॥ कालेन सुचिरेणाथ, शुचिरेणाङ्कवन्मुनिः । तपस्तपनपूर्वाद्रिर्भवदत्तो दिवं ययौ ॥४३॥ अकुर्वता व्रतादीनि, भ्रातरि स्वर्गयातरि । अलागि नागिलाध्याने, भवदेवेन तेन तु ॥४४॥ अथ सुप्तां मुनिश्रेणी, निशि मुक्त्वाऽब्जिनीमिव । स भृङ्ग इव गन्ताऽभूत् , कान्तां कैरविणीमिव ॥४५॥ अथ श्लथगणग्रामः सग्रामग्रामसीमनि । गत्वाऽसौ मण्डपाहूतशैत्ये चैत्ये स्थितः क्वचित् ॥४६॥ आययौ वृद्धया साकमेकया सविवेकया । तदत्र काऽपि कामद्रुवात्या कात्यायनी पुरः ॥४७|| एतां श्वेताम्बरोऽपृच्छत् , रेवत्यार्यवतोः कथाम् । तौ प्रमीतौ ततः श्रुत्वा, सोऽपृच्छन्नागिलाकथाम् ॥४८॥ स्वयं सा नागिला चित्ते, भवदेवं विचार्य तम् ।
पप्रच्छ भवदेवोऽसि ?, नागिलाजानिरित्यमुम् ॥४९।। १. पृष्टेऽसौ खंता० ॥
20
25
D:\maha-k.pm5\2nd proof