________________
सप्तमः सर्गः]
[१३५ यक्षस्ततः प्रभृत्येष, कपर्दी करिवाहनः । पाशा-ऽङ्कशलसद्वाम-दक्षिणोपरिपाणिकः ॥६३।। द्रव्यप्रसेविका-बीजपूराङ्काध:करद्वयः । स्थापितः शिखरेऽत्रैव, भजते जनपूजनम् ॥६४॥ समस्तेष्वपि सङ्केषु , तीर्थयात्राविधायिषु । कुरुते दुरितोच्छेदमेदुरं प्रमदोदयम् ॥६५।। दिवानिशमसौ तीर्थरक्षादक्षिणमानसः ।
विधत्ते प्रत्यनीकेषु , सम्प्रत्यपि विनिग्रहम् ॥६६॥ [शत्रुञ्जयतीर्थोद्धारवर्णनम्]
अपि चात्र जिनाधीशचैत्यं भरतकारितम् । भूयोभिरुद्धृतं भूपैर्गतं कालेन जीर्णताम् ॥६७॥ ततश्चक्ष्वाकुवंश्येन, स्मरता निजपूर्वजान् । पुनः सगरसझेन, तच्चक्रे चक्रिणा नवम् ॥६८॥ ततः क्रमेण रामेण, निर्जित्य दशकन्धरम् । धरोद्धरणधुर्येण, चैत्यमेतत् समुद्धृतम् ॥६९॥ दृप्यन्निजभुजौर्जित्यजितकौरवगौरवैः । पुनर्नवभवल्लक्ष्मीताण्डवैरथ पाण्डवैः ॥७॥ ततो मधुमतीजातजन्मना सत्त्वसद्मना । देवतादेशमासाद्य, तपो-ब्रह्ममयात्मना ॥७१॥ पुण्यप्राप्यं प्रतिष्ठाप्य, प्रभूतद्रविणव्ययात् । ज्योतीरसाश्मनो बिम्बं, जावडेन न्यवेश्यत ॥७२॥ युग्मम् ॥ शिलादित्यक्षमापालो, वलभीबलभित् ततः । पुनर्नवीनतारुण्यपुण्यं चक्रे जिनालयम् ॥७३॥ गूर्जरत्राधरित्रीशे, ततः सिद्धाधिपे सति । श्रीमानाशुकमन्त्रीशस्तीर्थमेनमपूपुजपत् ॥७४॥ उपत्यकायामेतस्य, निवेश्य च निवेशनम् ।
स चैत्यं नेमिनाथस्य, भक्तिसारमकारयत् ॥७५॥ १. °धराधीशो खंता० ॥
D:\maha-k.pm5\2nd proof