________________
१३४]
10
[सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् ततः सोऽवधिना बुद्ध्वा, कपर्दी वृत्तमात्मनः । परित्यज्यान्यकार्याणि, वेगादिह समागमत् ॥५०॥ स्रपयित्वाऽर्चयित्वा च, स्तुत्वा च भुवनप्रभुम् । ततो विज्ञः कृतज्ञोऽसौ, जगाम गुरुसन्निधौ ॥५१॥ गुरून् सोऽथ नमस्कृत्य, दिव्यरूपधरः पुरः । ज्ञापयित्वा स्ववृत्तान्तमुवाच रचिताञ्जलिः ॥५२॥ ममैतास्तात ! यक्षत्वसुलभाः सुखसम्पदः । तवोपदेशकल्पद्रोरुत्फुल्लत्पल्लवश्रियः ॥५३॥ प्रभवोऽन्येऽपि दृष्टेभ्यः, कष्टेभ्यस्त्रातुमातुरम् । दृष्टादृष्टं पुनः कष्टं, पेष्टुमीष्टे परं गुरुः ॥५४॥ वस्तुनोऽन्यस्य दत्तस्य, फलं क्षयि मुहुर्मुहुः । गुरूपदेशस्य पुनः, फलं गुरु पुरः पुरः ॥५५॥ तदादेशं प्रयच्छन्तु , गुरवः करवाणि किम् ? । कथञ्चित् तनुतामेति, मम येनाधमर्णता ॥५६।। ऊचिरे सूरयोऽप्येतत् , कृतज्ञस्य तवोचितम् । तीर्थप्रभावप्रभवं, वैभवं भवतः पुनः ॥५७॥ तदत्रावस्थितेनैव, सेव्यः शश्वदसौ प्रभुः । तदाराधकलोकस्य, दुरितं हरता त्वया ॥५८।। ततो गुरूणामादेशाद् , देशान्तरपराङ्मुखः ।
यक्षः कपर्दी तीर्थेऽस्मिन् , विघ्नमर्दी स्थितः स्वयम् ॥५९॥ $वृत्तान्तमेनमाकाऽनघा कौलीनशङ्किनी ।
शाकिनीवातिदुष्टाऽपि, स्वपापेनान्वतप्यत ॥६०॥ सा विवेकमिवोत्तुङ्गमारुह्य शिखरं गिरेः । प्रभुमेनं नमस्कृत्य, कृत्यज्ञा भक्तमत्यजत् ॥६१।। ततः सा तीर्थमाहात्म्याद् , द्विपरूपधरः सुरः ।
भर्तुर्वाहनतां प्रापदाभियोगिककर्मणा ॥६२।। १. न्यकर्माणि खंता० ॥ २. दयं प्र० खंता० ॥
15
20
D:\maha-k.pm5\2nd proof