________________
[१३३
सप्तमः सर्गः]
नारदः पारदस्वच्छसच्चरित्रपवित्रधीः ।
अस्मिन्नवाप्तवान् मुक्तिमतिमुक्तमुनेगिरा ॥३७॥ तीर्थाधिपतिभिः सर्वैरेकं श्रीनेमिनं विना ।
अत्र पावित्र्यमासूत्रि, पावनैः पादपांशुभिः ॥३८॥ तिर्यञ्चोऽपि हि धन्यास्ते, यऽत्र संजज्ञिरे गिरौ । मन्ये धन्यतमं त्वां तु , नित्योपासनवासनम् ॥३९॥ शिक्षाभङ्गीमिमामङ्गीकार्य तं सूरयो ययुः । शिक्षाऽपि क्रियया भेजे, कपर्दिनमहर्दिनम् ॥४०॥ निरस्तः सोऽन्यदा क्रोधचण्डया रण्डया तया । बहिर्गृहाद् विनिर्यातः, शत्रुञ्जयतले ययौ ॥४१।। श्रमाद् विश्रामकामोऽथ, वटं विटपिनं श्रितः । आसन्नभूतले सद्यो, मद्यभाण्डं मुमोच सः ॥४२॥ क्षणमात्रेण विश्रान्तः, स्मृतपञ्चनमस्कृतिः । पातुकामः सुरां पात्रे, विषबिन्दुं ददर्श सः ॥४३॥ कुतोऽयमिति तेनाथ, दूरोदञ्चितचक्षुषा । दृष्टो गृध्रः फणिग्रासव्यग्रो न्यग्रोधपादपे ॥४४॥ मदिराक्षीमिव त्यक्त्वा, मदिरामप्ययं ततः । आरुरोह गलन्मोहः, शत्रुञ्जयगिरेः शिरः ॥४५॥ तत्र नेत्रसुधावृष्टी, दृष्टे भुवनभर्तरि । पराभवभवस्तस्य, तापः प्रापत् तदा शमम् ॥४६॥ तत: कन्दलितानन्दः, प्रणम्य परमेश्वरम् । स पश्यन्नात्मनो ग्राममुत्तरं शिखरं ययौ ॥४७॥ तत्र पश्यन् प्रभोश्चैत्यं, स्मरन् पञ्चनमस्कृतिम् । मुक्त्वा प्रचारमाहारपरिहारं चकार सः ॥४८॥ ततस्तीर्थप्रभावेन, भावेन च शुभेन सः । यक्षतामक्षतां प्राप, सप्रभावां भवान्तरे ॥४९।।
D:\maha-k.pm5\2nd proof