________________
१३२]
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् एनमन्वशिषश्चैते, त्वया मन्त्रोऽयमद्भुतः । शयने भोजने पाने, स्मर्तव्यः प्रथमं सदा ॥२४॥ "महीयान् महिमा भद्र !, कतमोऽस्य प्रशस्यते ? । स्वल्पः कल्पद्रुमो यत्र, चिन्ता चिन्तामणौ वृथा ॥२५॥ पञ्चाननवधूः पञ्चपरमेष्ठिनमस्कृतिः । स्थित्वा मनोवनोद्देशे, हन्ति दन्तिसमं तमः ॥२६॥ दुरितानि दुरन्तानि, तस्य नश्यन्ति दूरतः । यच्चित्ते यामिकी पञ्चपरमेष्ठिनमस्कृतिः" ॥२७॥ अत्र शत्रुञ्जयाद्रौ च, श्रीयुगादिजिनेश्वरः । नमस्कार्योऽन्वहं सन्ध्यामवन्ध्यां तन्वता त्वया ॥२८॥ अयं हि विमलो नाम, गिरिधुरि धराभृताम् । स्थानमासूत्रयद् यत्र, जगत्त्रयगुरुः स्वयम् ॥२९॥ ख्यातिर्विमल इत्यस्य, विश्वान्तरमलव्ययात् । जयादान्तरशत्रूणां, श्रीशत्रुञ्जय इत्यपि ॥३०॥ भावेन भजतामेतं, मुक्तिः साऽपि स्वयंवरा । लक्ष्मीरिव भवेन्न्यायवर्तनीवर्तिनां नृणाम् ॥३१॥ "यदस्मिन् पुण्डरीकेण, धुर्येण गणधारिणाम् । लेभे मुक्तिर्मुनीन्द्राणां, पञ्चभिः कोटिभिः सह ॥३२॥ द्रविडा वालिखिल्लाश्च, नरेशा दश कोटयः । सहैव सिद्धिसौधाग्रमारोहन् मोहनिर्जयात् ॥३३॥ ख्यातनामा नमिः कोटिद्वयेन विनिमिश्च सः । वालिर्दाशरथी राम-भरतौ च शमे रतौ ॥३४॥ थावच्चानन्दनः सोऽपि, ध्वस्तशोकः शुकोऽपि च । मुनीनां द्विसहस्त्रेण, पञ्चशत्या तु शैलकः ॥३५॥ पाण्डवाः किञ्च पञ्चापि, जनन्या सह धन्यया । प्रद्युम्नादिकुमाराणां, सा स्तिस्रश्च कोटयः" ॥३६॥ पञ्चभिः कुलकम् ॥
15
25
१. °रि महीभृ खंता० पाता० ।। २. शेलकः वता० ।। ३. कलापकम् वता० पता० ॥
D:\maha-k.pm5\2nd proof