________________
सप्तमः सर्गः]
[१३१
नत्वा भ्रूभङ्गमात्रेण, तौ मुनी निजगाद सः । हंहो ! निवेद्यतामत्र, समागमनकारणम् ॥११॥ तक्रेण दध्ना दुग्धेन, सर्पिषा वा प्रयोजनम् ? । यद्यस्ति किञ्चित् तद् ब्रूत, नूतनं दर्शनं हि वः ॥१२॥ तमूचतुर्मुनी हंहो !, महत्तर ! निशम्यताम् । त्वदन्तिकमुपागन्तुमस्ति नौ कारणान्तरम् ॥१३॥ तीर्थयात्रार्थमायाताः, सन्त्यत्र गुरवोऽधुना । सोऽयं तोयदकालोऽपि, समं दैवादवातरत् ॥१४॥ गुरूणां युज्यते स्थातुं , चतुर्मासीमिहैव यत् । उपाश्रयार्थमायातौ, ततश्चावां तवान्तिके ॥१५।। सोऽप्यब्रवीन्निराबाधो, गृह्यतामयमाश्रमः । निजोपदेशलेशोऽपि, देयो नात्र स्थितैः पुनः ॥१६।। तथेति प्रतिपद्याथ, तस्थुस्ते तत्र सूरयः । स्पर्धिष्णवः पयोवाहं, स्वाध्यायामृतवृष्टिभिः ।।१७।। प्रतिश्रयान्तः संलीनैरदीनैर्मुनिपुङ्गवैः । अत्यवाह्यत बाह्या-ऽन्त:संयतैः स तपात्ययः ॥१८॥ मानसादिव तद्ग्रामान्मुनिहंसा विहारिणः । ऊचुः कपदिनं प्राणिमदिनं तेऽनुयायिनम् ॥१९।। अस्माकं स्थानदानेन, सर्वथोपकृतं त्वया । तवोपकारिणोऽप्युच्चैरस्माभिस्तु न किञ्चन ॥२०॥ तदद्य यद्यनुज्ञा ते, ज्ञातेयमनुरुध्यते । दत्त्वोपदेशं तत् किञ्चिन्निधुनीमोऽधमर्णताम् ॥२१॥ महत्तरोऽवदद् देयः, स्तोकोऽपि नियमो न मे । कथयन्तु पुनः किञ्चिदक्षरं परमाक्षरम् ॥२२॥ ततस्ते गुरवस्तस्मै, स्मितनेत्राम्बुजन्मने ।
परमेष्ठिमयं मन्त्रं, मानसान्तय॑वीविशन् ।।२३।। १. व तत् खंता० ॥ २. श्रयः । नि° पाता० ॥
D:\maha-k.pm5\2nd proof