________________
5
10
15
20
सप्तमः सर्गः ॥
इत्थं परोपकारस्य, विपुलाः फलसम्पदः । धनसार्थेशदृष्टान्तात्, तवामात्य ! प्रदर्शिताः ॥१॥ यदुत्तरोत्तरश्रीणां, सञ्जज्ञे भाजनं धनः । सर्वं परोपकारस्य, तदेतन्महिमाऽद्भुतम् ॥२॥ किञ्च विश्वोपकाराय, तद् युगादिजिनेन्दुना । तीर्थेषु धुर्यतां नीतः, सोऽपि शत्रुञ्जयो गिरिः ||३॥ “मन्त्रिन्नेतस्य तीर्थस्य, प्रभावविभवोऽद्भुतः ।
यं वक्तुं सङ्कुचन्त्युच्चैर्वाचो वाचस्पतेरपि ॥४॥
मनोरथेऽपि सम्पन्ने, यत्र यात्रोत्सवं प्रति । सम्यक्त्वरत्नं निर्यत्नं सद्योऽप्यासाद्यते जनैः ॥५॥ दृष्टेऽपि यत्र पुण्यश्रीः, स्यादवश्यं वशंवदाः । स्पृष्टे तु साऽपि निर्वाणपदवी न दवीयसी" ॥६॥ [ कपर्दियक्षोत्पत्तिः ]
§§ उपत्यकायां किञ्चास्य, पञ्चास्यध्वनितादपि । जयत्यभीरुकाभीरं, पुरं पालित्तपालितम् ||७|| तत्राभवत् कपर्दीति, नाम ग्राममहत्तरः । चौर्य-क्रौर्य-मृषा मद्य- - द्यूतस्यूतमनोरथः ||८|| पूरिताऽप्यघसङ्घातैरनघा नाम विश्रुता ।
उद्दण्डा चण्डतेवाऽभूद्, देहिनी तस्य गेहिनी ॥९॥ अन्येद्युर्मद्यपानेन, ताम्रास्यो मद्यभाण्डभृत् । अपश्यन्मञ्चकासीनो, मुनिद्वन्द्वमुपागतम् ॥१०॥ १. म्राक्षो मद्य' खंता० ॥