________________
१३६]
[सङ्गपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् वापीमप्यत्र लोकस्य, तृष्णाविच्छेददायिनीम् । भगवद्देशनासारनीरां स निरमापयत् ॥७६॥ किञ्च तीर्थेऽत्र पूजार्थं, द्वादशग्रामशासनम् । अदापयदयं मन्त्री, सिद्धराजमहीभुजा ॥७७॥ कुमारपालभूपाले, पालयत्यवनीतलम् । मन्त्री वाग्भटदेवोऽभूदथोदयननन्दनः ॥७८॥ निदेशादथ भूभर्तुरभ्यमित्रीणताजुषः । समं सुराष्ट्रापतिना, पितुः सङ्ग्रामगामिनः ॥७९॥ समायातस्य तीर्थेऽस्मिन् , तीर्थोद्धारमनोरथम् । विज्ञो विज्ञातवान् सोऽयं, परिवारगिरा चिरात् ॥८०॥ युग्मम् ॥ पुण्यलक्ष्मी भवाम्भोधेरुद्धर्तुं पुरुषोत्तमः । स नाभेयप्रभोर्नव्यं, मन्दिरं मन्दरं व्यधात् ॥८१॥ विशालशालं शैलाधो, मुक्ताभकपिशीर्षकम् । ताडङ्कवद् भुवश्चक्रे, श्रीकुमारपुरं पुरम् ॥८२॥ त्रिभुवनपालविहारो, नीलमणिविडम्बिपार्श्वजिनबिम्बः । इह वहति मध्यनिहितस्तबकतुलामतुलसौभाग्यः ॥८३॥ नन्दनाभिनयनाय नाटिकाः, वाटिकाश्च धृतपुष्पसाटिकाः । कर्तुमस्य जिनभर्तुरर्चनं, तत्पुरः परिसरेऽकरोदसौ ॥८४॥ इत्थं यथाश्रुतमयं कथितः कथञ्चित् , किञ्चित् प्रभावविभवस्तव वस्तुपाल ! । वाग्गोचरे चरति सैष पुन समस्तस्तीर्थस्य पश्य महिमा न हि मादृशानाम् ॥८५॥ संसारसागरपतज्जनतान्तरीप-मारोहतां शिवपदं प्रथमावतारः । पापप्रपातधुतधर्मनिवासदुर्ग, शत्रुञ्जयो जयति पुञ्जितपुण्यलक्ष्मीः ॥८६॥
॥ इति श्रीविजयसेनसूरिशिष्यश्रीमदुदयप्रभसूरिविरचिते श्रीधर्माभ्युदयनाम्नि श्रीसङ्घपतिचरिते लक्ष्म्यङ्के महाकाव्ये श्रीशत्रुञ्जयमाहात्म्योत्कीर्तनो नाम सप्तमः सर्गः समाप्तः ॥
१. जुषा खंता० पाता० ॥ २. पुरा खंता० पाता० ॥ ३. °ध्यविनि वता० ॥ ४. यथाश्रुतिपथं कथि° पातासं० ॥ ५. "स्ततीर्थ' पाता० ॥ ६. त्म्यकी° पाता० ॥
15
20
D:\maha-k.pm5\2nd proof