________________
[१२७
षष्ठः सर्गः]
शुशुभे स स्थितस्तत्र, दर्पणप्रतिबिम्बितः । विजितेन स्मरेणेव, सेवितुं कृतसन्निधिः ॥६२॥ तदा विलोकमानस्य, नृपस्य मणिदर्पणम् । अभवद् द्विगुणा मूर्तिः, कान्तिः कोटिगुणा पुनः ॥६३।। न्यस्तं मोहेन हिञ्जीरमिव तस्य महीशितुः । तदा लीलालुलत्पाणेनिजगालाङ्गुलीयकम् ॥६४।। विना तेनाङ्गलीयेन, दृष्टा तेनाङ्गली ततः । निःश्रीका निष्पताकेव, मणिकेतनयष्टिका ॥६५॥ सौभाग्यं भूषणैरेव, बिभर्ति वपुरङ्गिनाम् । निश्चेतुमिति मोक्तुं स, प्रारेभे भूषणावलीम् ॥६६॥ विमुच्य मुकुटं हेममयं मौलिं व्यलोकयत् । श्रिया विरहितं चैत्यमिव निष्कलशं नृपः ॥६७।। मुक्ते मुक्तावलीनद्धे, कुण्डलद्वितयेऽथ सः । शताङ्गमिव निश्चक्रं, स्वास्यं नि:श्रीकमैक्षत ॥६८॥ व्यलोकयत परित्यक्तहारां स हृदयावनीम् । संशुष्कनिर्झरोद्गारां, स्वर्णाचलतटीमिव ॥६९।। ग्रीवामुत्तारितस्मेरमणिग्रैवेयकामसौ । अतारापरिधि मेरुमेखलामिव चैक्षत ।।७०।। स भुजौ च्युतलक्ष्मीको, निरैक्षत निरङ्गदौ । प्रतिमानविनिर्मुक्तौ, सुरेभदशनाविव ॥७१।। हस्तावपास्तमाणिक्यकङ्कणौ पश्यति स्म सः । तोरणस्तम्भवद् वातहृतवन्दनमालिकौ ॥७२॥ शेषा अप्यङ्गलीर्मुक्ताङ्गलीयाः स्रस्ततेजसः । शाखा इव परिभ्रष्टपल्लवाः स व्यलोकयत् ॥७३।। एवं विमुक्तालङ्कारं, सोऽपश्यद् वपुरप्रभम् ।
शुष्कं सर इव भ्रष्टहंस-राजीव-कैरवम् ॥७४।। १. वनिम् खंता० ॥
D:\maha-k.pm5\2nd proof