________________
१२८]
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् "अचिन्तयच्च ही ! देहो, भूषणैरेव भासते । प्रङ्कोत्कर्षाकुलो वर्षाकालः सस्योद्गमैरिव ॥५॥ शरीरं मलमञ्जूषा, बहिर्दुगन्धिभीरुभिः । मूढैः कर्पूर-कस्तूरी-चन्दनैरधिवास्यते ॥६॥ मलोत्पन्नान्मलैः पूर्णादतोऽङ्गाल्लीनमन्तरा । धौतं बोधिजलैः ज्ञानरत्नमाद्रियते बुधैः ॥७७॥ स्वकीयान् बान्धवानेव, मन्ये धन्यतमानिमान् । यैरिदं राज्यमुत्सृज्य, लेभे लोकोत्तरं पदम् ॥७८॥ अहं तु विषयातङ्कपङ्कनिःशूकशूकरः । गणयामि न नामाहमात्मानं मानुषेष्वपि" ॥७९॥ चिन्तयन्नित्ययं धीमानपूर्वकरणक्रमात् । भावनां भवनाशाय, भावयामास भूविभुः ॥८०॥ अथोच्चैः सिद्धिसौधाग्रसङ्गजाग्रन्मनोरथः । क्षितीशः क्षपकश्रेणीनिः श्रेणीमारुरोह सः ॥८१॥ मुनिस्तदानीमानीतकेवलश्रीकरग्रहः । उत्सवोत्सुकचित्तेन, सुरेन्द्रेणाभ्यगम्यत ॥८२॥ ख्यापयित्वा बलीयस्त्वं. व्यवहारनयस्य सः । शक्रेणाभिदधे दीक्षावेषग्रहणहेतवे ॥८३॥ केशसम्भारमुत्पाट्य, मुष्टिभिः पञ्चभिर्नृपः । दत्तं देवतयाऽशेष, मुनिवेषं तदाऽऽददे ॥८४॥ सममेव महीशानां, सहस्रैर्दशभिस्तदा । साग्रहैर्जगृहे दीक्षादक्षैः स्वाम्यनुवर्तने ॥८५।। तदानीं केवलज्ञानमहिमानं महामनाः । व्यधत्त तस्य नाभेयप्रभोरिव ऋभुप्रभुः ॥८६॥ भरतोऽपि ततस्तातवर्तनीमनुवर्तयन् ।
असिञ्चद् देशनासारसुधाभिरवनीवनीम् ॥८७।। १. "स्तावद्वर्तनीमनुवर्त्तनीम् । असि खंता० ॥
25
D:\maha-k.pm5\2nd proof