________________
5
10
15
20
25
१२६]
खंता० ॥
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम्
तद्वचःकुसुमासारसारसौरभसम्भृतः ।
शोच्यस्त्वया न चात्माऽपि, पुण्यलक्ष्मीस्वयंवरः ॥५०॥ मूर्खो दुःखार्दितोऽभ्येति, लोकः शोकस्य वश्यताम् । सेवते न पुनर्धर्म्म, तत्प्रतीकारकारणम् ॥५१॥ त्वमप्याक्रान्तलोकेन, शोकेन यदि जीयसे । शौडीर्यगर्जितं तत्ते, न धत्ते ध्रुवमूर्जितम् ॥५२॥ शक्रोऽप्यक्रीडयत् पीडाविस्मारणविधित्सया । एनं प्रतिदिनं नानाविनोदैरात्तसम्मदम् ॥५३॥ जलैर्जितामृतैः स्वामिदेशनाबन्धबन्धुभिः । सह मित्रसमूहेन, चक्रे केलिं कदाऽपि सः ॥५४॥ आदायाऽऽदाय पद्मानि, तत्र मूर्धनि धारयन् । नृपः प्रमोदमाप्नोति, नाभेयाङ्घ्रिभ्रमादिव ॥५५॥ कदाऽप्युपवनोत्सङ्गे, धत्ते मुदमसौ लसन् । पुष्पाणि वासिताशानि, पश्यन् नाभेयकीर्तिवत् ॥५६॥ वहन् स कौसुमीं मालां, हृदि तत्र प्रमोदते । प्रभोर्व्याख्याक्षणोन्मीलद्दशनद्युतिकौतुकात् ॥५७॥ भूनेता नित्यमित्यादिकेलिकल्लोलकौतुकी । मुदा निर्गमयामास, दिनानि घटिकार्द्धवत् ॥५८॥ सांसारिकसुखाम्भोधिमग्नो भरतभूपतिः । विभोर्मोक्षदिनात् पञ्च, पूर्वलक्षाण्यवाहयत् ॥५९॥ • भरतचक्रवर्त्तिकेवलज्ञान-निर्वाणे ] अन्येद्युः स्नात्रनिर्णिक्तगात्रो धात्रीभृतांवरः । अन्तरन्तःपुरावासं, भूरिभूषणभूषितः ॥६०॥ रत्नादर्शगृहं प्राप, वैरस्त्रीपरिवारितः ।
भरतेशो नभोदेशं, विभाभिरिव भास्करः ||६१|| युग्मम् ||
१. °स, वासरान् घटि° खंता० ॥ २. स्नाननि खंता० ॥। ३. प्रियाभिरभितो वृतः
D:\maha-k.pm5 \ 2nd proof