________________
षष्ठः सर्गः]
[१२५ जयत्यसावसामान्यधामधामजिनाग्रणीः । समग्रजगदम्भोजविकाशनविभाविभुः ॥३७॥ असौ दिशतु विश्वेऽपि, हर्षमुत्कर्षयन् गुणान् । स्पष्टमष्टमहाकर्ममर्मनिर्मन्थकर्मठः ॥३८॥ सम्पिष्टविष्टपानिष्टदुरितोऽङ्करितोत्सवः । जयत्ययं महामायात्रियामाया दिवाकरः ॥३९॥ असावपारसंसारसमुत्तारतरण्डकः । जयतादुज्ज्वलज्ञानमुक्ताधानकरण्डकः ॥४०॥ सिद्धिसौधोन्मुखप्राणिश्रेणिनिःश्रेणिसन्निभः ।
रोहन्मोहद्रुमद्रोहलोहपशुर्जयत्ययम्" ॥४१॥ $$ आदिनाथमिति स्तुत्वा, परानपि जिनेश्वरान् ।
पुनः पुनर्नमंश्चैत्यान् , कथञ्चिन्निर्ययौ नृपः ॥४२॥ गिरिं विलोकयन् वारंवारं वलितकन्धरः । भोक्तुं मोक्तुं चासमर्थो, निधानमिव तद्धनः ॥४३॥ वस्त्रान्तमाजितोन्मज्जद्बाष्पप्लुतविलोचनः । निभृतैर्मोनिभिर्भूपैर्वृतोऽप्येक इव व्रजन् ॥४४|| मन्दमन्दाघ्रिसञ्चारमुत्ततार गिरेस्ततः । नृपः शोकतम:पूरैरपश्यन्निव वर्तनीम् ॥४५।। विशेषकम् ॥ असौ सैन्यजनैः स्वस्ववाहनत्वरणालसैः । शोकप्रच्छादितोत्साहमयोध्यामविशत् पुरीम् ॥४६।। नाभेयप्रभुपादानां, दिवानिशमसौ स्मरन् । त्यक्तान्यव्यापृतिस्तत्र, तस्थावस्वस्थमानसः ॥४७॥ तममात्यजनो वीक्ष्य, सर्वकृत्यपराङ्मुखम् । इति प्रबोधयामास, पितृ-भ्रातृशुचाकुलम् ॥४८॥ जगतोऽपि कृतालोकं, लोकोत्तरपदास्पदम् ।
तातं हृतविपत्तापं, शोचितुं तव नोचितम् ॥४९॥ १. भावसुः पातु० ॥२. लोकान्तर वता० खंता० ॥ ३. °पत्पातं, शो' खंता० पाता० ।।
D:\maha-k.pm5\2nd proof