________________
5
10
15
20
25
१२४]
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् लोहयन्त्रमयानेष्यज्जनताशातनाभयात् । रक्षकानार्षभिस्तत्राकार्षीत् कीनाशदासवत् ॥२४॥ तस्य सिंहनिषद्याख्यप्रासादस्य च मध्यतः । देवच्छन्दं व्यधाच्चक्री, रत्नपीठप्रतिष्ठितम् ॥२५॥ यथामानं यथावर्णं, यथालाच्छनमत्र च । बिम्बानि ऋषभादीनां, चतुर्विंशतिमातनोत् ॥२६॥ कृत्वा रत्नमयीः सर्वभ्रातॄणां प्रतिमा अपि । तत्रोपास्तिपरां भूपः, स्वमूर्तिमपि निर्ममे ॥२७॥ बहिश्चैत्यं चितास्थाने, प्रभोः स्तूपमपि व्यधात् । भ्रातॄणामपि च स्तूपान्, नवतिं स नवाधिकाम् ॥२८॥ प्रतिष्टाप्याथ बिम्बानि, तत्र चैत्ये यथाविधि । प्रयोभिः स्नपयामास, मांसलामोदमेदुरैः ॥२९॥ प्रमृज्य गन्धकाषाय्या, चन्दनेन विलिप्य च । अर्चयामास माणिक्य-सुवर्ण - कुसुमांशुकैः ॥३०॥ तत्र चागुरु- कर्पूर- धूपधूम्या घनावृते । कुर्वन् घण्टारवैर्गजिं, विद्युतं भूषणद्युता ॥३१॥
तूर्य-चामर-सोत्कर्षपुष्पवर्षमनोहरम् ।
कर्पूररात्रिकं चक्री, चक्रे शक्रेण सन्निभः ||३२|| युग्मम् ॥ तदन्ते च विधायोच्चैर्विधिवच्चैत्यवन्दनाम् । महीमहेन्द्रस्तुष्टाव, भावपावनमानसः ॥३३॥
" अहो ! सहोत्थितज्ञानत्रयो विश्वत्रयीपतिः । दुःखत्रयात् परित्राता, त्रिकालज्ञो जयत्ययम् ॥३४॥ जयत्येष स्व-परयोर्निर्विशेषमना मुनिः । समीपदीपस्त्रैलोक्येऽप्युच्चैस्तमतमश्छिदे ॥ ३५॥
अयं जयति कन्दर्पसर्पदर्पपतत्पतिः ।
सुरा - ऽसुरशिरोरत्नराजिनीराजितक्रमः ॥३६॥
१. °नमेव च खंता० ॥। २. दुष्टावनिपतिस्तुतः वता० खंता० ॥
D:\maha-k.pm5\ 2nd proof