________________
[१२३
षष्ठः सर्गः]
वृत्तां प्रभोः कृते त्र्यस्रामिक्ष्वाकुकुलजन्मनाम् । चतुरस्रां परेषां तु , चितां चक्रुर्दिवौकसः ॥११॥ युग्मम् ॥ ततो मुक्तशरीराणि, निवेश्य शिबिकान्तरा । चितासमीपमानिन्युस्ते महेन महीयसा ॥१२॥ अथो यथोचितं तेषु , निहितेषु चितान्तरे।। वह्नि विचक्रुर्वायुं च, वह्नि-वायुकुमारकाः ॥१३।। तं च व्यधापयन् वह्निमहायाऽब्दकुमारकाः । सुगन्धिभिरुपानीतैः, क्षीरवारिधिवारिभिः ॥१४॥ ततः सर्वेऽपि देवेन्द्राः, देवाश्च जगृहुर्मुदा । दंष्ट्रा-दन्तादिकान्यस्थिशकलानि यथोचितम् ॥१५॥ याचमानाश्च देवेभ्यो, लब्धकुण्डत्रयाग्नयः । श्रावकास्तत्प्रभृत्येवमभूवन्नग्निहोत्रिणः ॥१६।। भस्मभूषणतां प्रापुः, परे तद्भस्मवन्दकाः । ततश्चितात्रयस्थाने, रत्नस्तूपान् व्यधुः सुराः ॥१७।। इन्द्राश्चाष्टाह्निकां नन्दीश्वरे कृत्वाऽञ्जनाद्रिषु । न्यस्य माणवकस्तम्भे, दंष्ट्रा भर्तुरपूपुजन् ।।१८।। भरतोऽपि प्रभोरङ्गसंस्कारासन्नभूतले । त्रिगव्यूतोच्छ्रयं चैत्यं, चक्रे योजनविस्तृतम् ॥१९॥ रत्नाश्मनिर्मितेनाथ, तेन चैत्येन भासुरः । आविर्भूतो बभौ रत्नगर्भागर्भ इवाचलः ॥२०॥ तत्र चैत्ये चतुरि, प्रतिद्वारं स मण्डपान् । विचित्रान् सूत्रयामास, प्रभापल्लविताम्बरान् ॥२१॥ प्रत्येकं तत्पुर: प्रेक्षामण्डपानां चतुष्टयम् । अक्षपाटक-चैत्यद्रु-पीठ-पुष्करिणीयुतम् ॥२२॥ तं गिरिं दण्डरत्नेन, समीकृत्य नृपो व्यधात् ।
अष्टापदं स सोपानैरष्टभिर्मेखलानिभैः ॥२३॥ १. जन्मिनाम् पातासं० ॥
D:\maha-k.pm5\2nd proof