________________
षष्ठः सर्गः ॥ [ऋषभजिननिर्वाणमहोत्सवः]
प्रभोर्मोक्षक्षणे तत्र, नारकेष्वपि सौख्यदे । अज्ञातरुदितश्चक्री, मूच्छितः क्षमातलेऽपतत् ॥१॥ शोकग्रन्थिविभेदाय, रुदितं शिक्षयन् हरिः । तस्य कण्ठमथाऽऽलम्ब्य, पूत्कारं तारमातनोत् ॥२॥ लब्धसञोऽथ राजाऽपि, रुदन्नुच्चैःस्वरं पुरः । विह्वलः शोकपूरेण, विललापेति बालवत् ॥३॥ "नाथ ! त्यक्तः कुतो दोषादनाथोऽयं त्वया जनः ? ।
युष्मद् विना कथं भावी, भवारण्येऽशरण्यकः ? ॥४॥ वियोगः सह्यते भानोः, पुनरुद्गमनाशया । अनावृत्तिपदस्थस्य, भवतस्तु सुदुःसहः ॥५॥ मूलतोऽसि न पैदृष्टस्तेऽप्यस्मत्तः प्रभो ! वरम् । अदृष्टेऽर्थे न तद् दुःखं, दृष्टनष्टे तु यद् भवेत् ॥६॥ बन्धवोऽप्यनुगन्तारस्त्वाममी मम सर्वथा । एक एवाहमत्रास्मि, त्वया पङ्क्तिबहिष्कृतः ॥७॥ भूत्वा तस्य सुतः श्रीमन्निति शोकवशंवदः । अपि मुक्तिपदप्राप्तं, किं व्रीडयसि तं प्रभुम् ?" ॥८॥ नृपः प्रलापान् कुर्वाणो, गीर्वाणपतिना स्वयम् । इत्थं प्रबोधितः शोकशङ्ख किञ्चिन्मुमोच सः ॥९॥ युग्मम् ॥ अथाऽऽदिष्टाः सुरेन्द्रेण, चन्दनैर्नन्दनोद्गतैः । पूर्वस्यां दिशि याम्यायां, प्रतीच्यामपि च क्रमात् ॥१०॥
१. तलेऽलुठत् खंता० पाता० ॥