________________
पञ्चमः सर्गः]
[११९ गृहीतानशनाः शुक्लध्याननिधौतकल्मषाः । बभूव भूभृतस्तस्य, ते लीलामौलिमण्डनम् ॥११५॥ विशेषकम् ।। गणभृन्मुक्तिनिः श्रेणि, क्षपकश्रेणिमाश्रितः । तैः सार्धं साधुभिर्लेभे, द्वादशी गुणभूमिकाम् ॥११६।। मासान्ते चैत्रराकायामथ प्रथमतोऽभवत् । केवलं पुण्डरीकस्य, ततोऽन्येषां तपोभृताम् ॥११७।। अथैतान् मुक्तिवनिता, नितान्तमनुरागिणी । निर्मुक्तकर्मावरणानात्मसादकृत स्वयम् ॥११८॥ गीर्वाणास्तत्र निर्वाणगमनोत्सवमुत्सुकाः । आगत्य चक्रिरे तेषां, हर्षसोत्कर्षचेतसः ॥११९॥ तदेष प्रथमं तीर्थं, शत्रुञ्जयधराधरः । बभूव पुण्डरीकादिसाधुसिद्धिनिबन्धनम् ॥१२०।। तत्र रत्नमयं चैत्यमुदितं मुदितो व्यधात् । उदयादिशिरश्चुम्बिरविबिम्बडम्बकम् ॥१२१॥ जितस्तेनैव चैत्येन, प्रभया सुरभूधरः । प्रस्वेदबिन्दुसन्दोहं, धत्ते तारावलिच्छलात् ॥१२२।। पुण्डरीकप्रभोर्मूर्त्या, युतामत्र नृपो व्यधात् । युगादिजिननाथस्य, प्रतिमां मतिमानसौ ॥१२३।। विहरन्नथ देशेषु , विविधेषु जगद्गुरुः । भविनां मुक्तिमार्गाय, धर्मं युग्यमिवार्पयन् ॥१२४।। पूर्वलक्षं परिक्षिप्य, दीक्षाकालात् त्रिकालवित् । निर्वाणकालं विज्ञाय, स्पष्टमष्टापदं ययौ ॥१२५॥ युग्मम् ॥ अष्टापदाद्रिमारूढः, परीतः स्फटिकांशुभिः ।
शुशुभे स विभुः शुभैः, सिद्धेरालोकजैरिव ॥१२६॥ १. निर्धूत खंता० पाता० ॥ २. अथ प्रथममुत्पेदे, पुण्डरीकस्य केवलम् । मासान्ते चैत्रराकायां, ततोऽन्येषां तपोभुताम् ॥११७॥ इति रूपेणायं श्लोकः पाता० उपलभ्यते ।।
15
D:\maha-k.pm5\2nd proof