________________
5
10
151
20
25
१२० ]
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् प्रत्यपद्यत साधूनां, सहस्त्रैर्दशभिर्युतः । चतुर्दशतपोयोगात्, पादपोपगमं जिनः ॥१२७॥ तथाऽवस्थितमद्रीन्द्रपालो व्यालोक्य तं प्रभुम् । गत्वा विज्ञपयामास, भरतं भूमिवासवम् ॥१२८॥ श्रुत्वा चतुर्दशाहारपरिहारं जगद्गुरोः । न चतुर्दशभिर्भेजे, रत्नैरपि नृपः सुखम् ॥१२९॥ ततश्चरणचारेण, चचाल भरतेश्वरः । परिवारैर्दिशो रुन्धन्नष्टावष्टापदं प्रति ॥१३०॥ अनुयाताऽपि पातेन, वेगादचलचीवरः । आजगाम गिरेर्मौलिमाकृष्टो मनसेव सः ॥१३१॥ अप्राप्तपूर्वावाजन्म, चरणौ प्राप्य चक्रिणः । मार्गभूर्दुर्भगेव स्त्री, रक्ताऽभूत् क्षरताऽसृजा ॥१३२॥ अशक्तेऽपि सहाऽऽगन्तुं, छत्रधारिणि चक्रिणः । अपनिन्ये मनस्तापस्तपनातपवेदनाम् ॥१३३॥ अथाष्टापदमारूढस्तं तथाऽवस्थितं प्रभुम् । अपश्यत् प्रसभोन्मीलद्बाष्पाविलविलोचनः ॥ १३४॥ स प्रणम्याभवद् यावदुपास्तिन्यस्तमानसः । अपश्यत् तावदायातान् सर्वान् गीर्वाणनायकान् ॥१३५॥ भक्ति-शोकभराभोगभङ्गुरीकृतकन्धरः ।
तैः समं शमिनामीशमुपासामासिवानसौ ॥१३६॥ माघकृष्णत्रयोदश्यां, पूर्वाह्णेऽभीचि विधौ । समाहितमनाः काययोगे स्थित्वाऽथ बादरे ॥१३७॥ अरौत्सीद् बादरौ शब्द-चित्तयोगौ जगद्गुरुः । कायस्य बादरं योगं, सूक्ष्मेणैव रुरोध सः ॥१३८॥ क्षिप्तसूक्ष्मतनूयोगं, सूक्ष्मक्रियमिति क्रमात् । तार्तीयीकं स तीर्थेशः, शुक्लध्यानमसाधयत् ॥१३९॥
D:\maha-k.pm5\ 2nd proof