________________
११८]
10
[सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् जलकान्तमणिश्रेणिमयवत् प्रतिभात्ययम् । विघटन्ते झटित्येव, भवाब्धेर्यत्र वीचयः ॥१०२॥ नृणामिहाधिरूढानां, शुक्लध्यानविभानिभात् । हस्तावलम्बनं दत्ते, मुक्तिश्री: कुन्दसुन्दरा ॥१०३॥ भ्रूण-ब्रह्मर्षिघातादिपातकान्यपि तत्क्षणात् । व्यपोहत्यस्य महिमा, हिमानीवाहिमत्विषः ॥१०४॥ व्यक्तं विमुक्तकाठिन्यमिह क्रूरात्मानां मनः । प्रयाति खादिराङ्गारकुण्डेऽयस्पिण्डवद् द्रवम्" ॥१०५॥ अतः शमसुधाकुण्ड !, पुण्डरीक ! त्वयाऽऽस्यताम् । अस्मिन् धराधरे सिद्धिलोलुभैः साधुभिः समम् ॥१०६॥ इत्यासाद्य प्रभोराज्ञां, पादौ नत्वाऽत्र भूधरे । अस्थायि पुण्डरीकेण, मुनिहंसैः सहामलैः ॥१०७।। ततश्च विहृतेऽन्यत्र, जगत्रितयनेतरि । शुचाऽमुचदयं शैलः, शालादिमणिमण्डनम् ॥१०८।। तत्रादिगणभृद् दुर्गे, श्रीजिनेशनिदेशतः । सहितः साधुभिस्तन्त्रैस्तन्त्रपाल इव स्थितः ॥१०९।। तदुवाच मुदा साधूनग्रणीर्गणधारिणाम् । मनःसंवेगसंवेगगौरगौरवया गिरा ॥११०॥ "तप:श्रीदूतिकाक्लृप्तसिद्धिसम्बन्धकाङ्क्षिणाम् । कोऽपि केवलसङ्केतनिकेतनमयं गिरिः ॥१११॥ अस्मिन्नाकारणं मुक्तेस्तद्वः केवलमेष्यति । तदात्मा तपसा शुद्धो, वास्यतां ध्यानसौरभात्" ॥११२॥ इति संवेगसश्रीकपुण्डरीकगिरा चिरात् । सर्वेऽप्यालोचनारोचमाना मानादिमाथिनः ॥११३।। क्षणक्षामितनि:शेषजन्तवोऽनन्तबोधयः । कर्मदानवभेदाय, साधवो माधवोपमाः ॥११४।।
20
25
D:\maha-k.pm5\2nd proof