________________
११६]
[सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् प्रतिबुद्ध्याथ तन्मध्यात् , संसारोद्वेगशालिनः । श्राद्धानामथ साधूनामयाचन्त व्रतानि ये ॥७६।। स तानाह ततानाहमशक्तो हीदृशे व्रते । पारिवाज्यमिदं मन्दमतिस्तद् गच्छत् प्रभुम् ॥७७।। यथोचितमथो चक्रुर्मामेत्य भवभीरवः । जनास्ते यत्प्रवृत्तिः स्याद् , यथा स्वार्थमिहार्थिनाम् ॥७॥ एवं विहरमाणोऽयमस्माभिः सह सम्प्रति । इतः स भवतः पुत्रो, धर्मध्यानमना मुनिः ॥७९।। सुरा-ऽसुरशिरःश्रेणिमणिभासुरितक्रमः । भावी मम समानश्रीश्चतुर्विंशो जिनेश्वरः ॥८०॥ युग्मम् ।। भरतोऽथ समुत्थाय, मरीचिं निकषा गतः । एनं प्रदक्षिणीकृत्य, नमश्चक्रे कृताञ्जलिः ॥८१॥ उक्तवाँश्च न ते पारिवाज्यमेतन्न जन्म च । किन्तु यत् तीर्थकृत्त्वं ते, भावि तद् वन्द्यते मया ॥८२।। भगवन्तमथो नत्वा, गतवान् भरतेश्वरः । विजहार च तीर्थेशोऽन्यतो वायुरिवास्खलन् ॥८३।। अथ लोकस्य दुःकर्मशत्रूच्छेदाय तीर्थकृत् । पुनानः पृथिवीं पादैः, शत्रुञ्जयगिरिं ययौ ॥८४॥ तं विलोक्य त्रिलोक्यन्तर्द्धर्मस्योच्चैः क्षमाभृतः । दुर्गप्रायगिरि मेने, मुनीन्द्रो निरुपद्रवम् ॥८५।। अथ प्रथमसर्वज्ञः, स विज्ञाय जगद्गुरुः । नगेन्द्रमिह माहात्म्यनिधानमिव पिण्डितम् ॥८६॥ तमारोहन्महामोहद्रोहाय परमेश्वरः । शत्रुवित्रासनायेव, कुञ्जरं वीरकुञ्जरः ॥८७॥ युग्मम् ॥ मुनयः पुण्डरीकाद्याः, सहैवाऽऽरुरुहुर्गिरिम् । सोपानमिव निर्वाणसौधस्यात्यन्तमुत्सुकाः ॥८८॥
15
20
25
१. रनरश्रेणि° वता० ॥ २. तमद्रिमिह पाता० ॥
D:\maha-k.pm5\2nd proof