________________
पञ्चमः सर्गः]
[११५
10
श्रावकाणां तदा चक्रे, नियूंढानां परीक्षणे । रेखात्रयं स काकिण्या, रत्नत्रितयसूचकम् ॥६३।। स्वाध्यायहेतवे तेषां, वेदानार्यान् नृपार्यमा । स चकार परार्था हि, प्रवृत्तिः स्यान्महात्मनाम् ॥६४॥ अथान्तरेऽस्य तीर्थस्य, व्यवच्छेदे कदाग्रहात् ।
अनार्यत्वममी मोहान्मिथ्यात्वं च प्रपेदिरे ॥६५॥ $इतश्च भगवानष्टापदमापदमंहसाम् ।
आययाविति विज्ञाय, वन्दितुं गतवान् नृपः ॥६६।। नत्वा तत्र जगन्नाथं, प्राञ्जलिर्गजतीपतिः । कथां शलाकापुरुषत्रिषष्टेरपि सोऽशृणोत् ॥६७।। अथ विज्ञपयामास, स्वामिनं भरतेश्वरः । अस्यां सभायां कोऽप्यस्ति, प्रभो ! भावी समस्त्वया ? ॥६८॥ अथ प्रथमतीर्थेशः, प्रोवाच भरतेश्वरम् । यस्त्वत्पुत्रोऽग्रहीद्दीक्षां मरीचिमत्पुरः पुरा ॥६९।। स दीक्षाभारमुद्वोढुमशक्तः सुखलालसः । छत्रमावारकं बिभ्रत् , कर्म मूर्तमिवात्मनः ॥७०॥ सकाषायोऽहमित्युच्चैः, कषायवसान्वितः । त्रिदण्डदण्डितश्चाहमिति दण्डवयं वहन् ॥७१।। न स्वभावसगन्धोऽहमिति श्रीखण्डमण्डितः । पारिवाज्यं किलाऽऽदत्त, 'नोल्लङ्घया भवितव्यता' ॥७२।। विशेषकम् ॥ 20 ततोऽनपदिकोऽस्माकं, विहरन्नेष भूपते ! । नवीनरुचिभिर्लोकः, पृष्टो धर्ममवोचत ॥७३॥ महाव्रतानि पञ्च स्युः, श्रमणानां महात्मनाम् । मुख्यो मोक्षस्य मार्गोऽयमशक्तौ श्रावको भवेत् ॥७४॥ अणव्रतानि पञ्च स्यः, सप्त शिक्षाव्रतानि च ।
श्राद्धेन पालनीयानि, यदीच्छाऽनुपमे सुखे ॥७५॥ १. प्रताधिपम् खंता० पाता० ॥ २. मुमुक्षोर्मोक्षमार्गो खंता० ॥
25
D:\maha-k.pm5\2nd proof