________________
११४]
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् गुणाधिकेषु कर्तव्या, पूजेत्युक्ते बिडौजसा । साधून् विना गुणी कोऽस्ति, मत्तोऽपीति व्यचिन्तयत् ॥५०॥ ज्ञातं सन्तितरां सन्तः, श्रावका मद्गुणाधिकाः । तेभ्यः पूजा विधेयेति, निश्चयं भरतो व्यधात् ॥५१॥ अथ प्रणम्य तीर्थेशं, ययौ दिवि दिवस्पतिः । भरतस्तु विनीतायां, पुर्यां धुर्यो मनस्विनाम् ॥५२।। अन्यतो विजहाराथ, प्रभुरष्टापदाचलात् । निर्दम्भं लम्भयन् लक्ष्मी, पुराम्भोजानि भानुवत् ॥५३।। भरतोऽपि रतो धर्मे, श्राद्धानाहूय भूरिशः । इदं जगाद भोक्तव्यं, भवद्भिर्मम मन्दिरे ॥५४॥ क्रियासु कृषिमुख्यासु , कार्यं चेतोऽपि न क्वचित् । भवद्भिः केवलं भाव्यं, धर्मकर्मैककर्मठैः ॥५५।। इदं न पाठ्यं निःशाठ्यं, भोजनान्ते मदग्रतः । वर्तते भीर्भवान् जिग्ये, ततो मा हन मा हन ॥५६॥ मत्वेदमथ ते श्राद्धा, भवने तस्य भुञ्जते । पठन्ति च वचस्तत् ते, सम्मोहगरगारुडम् ॥५७।। प्रमादी मेदिनीशोऽपि, मग्नो रतिमहानदे । नित्यमाकर्ण्य तद् वाक्यं, विचिन्तयति किञ्चन ॥५८।। अहं केन जितो ? ज्ञातं, कषायैस्तेभ्य एव भीः । वर्तते दुर्धरा तेन, न घात्याः प्राणिनो मया ॥५९॥ नित्यं ते स्मारयन्तीति, नीतिशक्राय चक्रिणे । विरागसागरोल्लासनिशाकरनिभं वचः ॥६०॥ प्रमादपादपाकीणे, तस्मिन् भरतभूभृति । पावनैस्तगिरां पूरैर्धर्मध्यानानलोऽज्वलत् ॥६१।। श्राद्धा-ऽश्राद्धाविवेकज्ञैस्तदाऽध्यक्षैनिवेदिते ।
चक्री चक्रे परीक्षां तदणु-शिक्षा-गुणव्रतैः ॥६२।। १. भूयसः खंता० पाता० ॥ २. ममाग्र° पाता० ॥ ३. वर्धते खंता० पाता० ॥ ४. वर्धते खंता० पाता० ॥ ५. अणु-शिक्षाव्रतैश्चक्रे, परीक्षां भरतोऽन्यदा इतिरूपमुत्तरार्धं पाता० ॥
25
D:\maha-k.pm5\2nd proof