________________
पञ्चमः सर्गः]
[११३ देशनान्ते ततश्चक्री, बन्धूनालोक्य वत्सलः । तेषां भोगविभागाय, जिनराजं व्यजिज्ञपत् ॥३७॥ अथाऽऽदिशज्जिनाधीशो, भरतक्ष्मापतिं प्रति । भोगानभिलषन्त्येते, किमभङ्गरसङ्गराः ? ॥३८॥ आनाय्य न्याय्यवित् क्षोणीपती रसवतीमथ । हेतवे निजबन्धूनामधूनां प्रसमाम्भसः ॥३९।। विज्ञो विज्ञपयामास, सानन्दो नाभिनन्दनम् । भोजनायाऽऽदिश स्वामिन् !, शमिनो बान्धवानिति ॥४०॥ युग्मम् ।। आदिदेशाथ तीर्थेशः, कारितं कल्पते न यत् । भुञ्जते तत् कुतो ज्ञानबन्धुरास्तव बन्धवः ? ॥४१॥ पुनर्विज्ञपयामास, नृपस्तहि जगत्प्रभो ! । स्वामिन्नकारितान्नाय, प्रेष्यन्तां मद्गृहानमी ॥४२॥ तमादिदेश तीर्थेशो, यथार्थमथ पार्थिवम् । राजन् ! न कल्पते राजपिण्डः शमभृतामिति ॥४३॥ नरेन्द्रेऽस्मिन् जिनेन्द्रेण, निषिद्धे सर्वथेत्यथ । पराभवभवन्मानम्लानिश्यामलितानने ॥४४॥ माऽसौ खेदस्य पात्रं भूदित्यवेत्य मरुत्वता । अवग्रहभिदाः पृष्टः, स्पष्टमूचे जगद्गुरुः ॥४५।। युग्मम् ।। शक्रस्य चक्रिणो राज्ञः, स्थानेशस्य गुरोरिति । पञ्चधाऽवग्रहो भावात् , पञ्चानामपि पुण्यकृत् ॥४६॥ अथ शक्रः प्रणम्याऽऽह, प्रभो ! क्षेत्रेऽत्र भारते । मया वासाय साधूनां, प्रदत्तोऽयमवग्रहः ॥४७।। आकर्ण्य भरतोऽपीति, प्रीतो नत्वा जगद्गुरुम् । अनुजज्ञे निवासाय, साधूनां भारती भुवम् ॥४८॥ अथापृच्छन्महीभर्ता, धुभर्तारं ससम्मदः । देयं कस्यान्नमानीतमिदमेवं निवेद्यताम् ॥४९।।
25
१. सभासदः खंता० ॥
D:\maha-k.pm5\2nd proof