________________
5
10
15
20
25
११२]
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् भ्रातरुत्तर मातङ्गादित्याकर्ण्य तयोर्वचः । चिन्ताचान्तमतिर्भ्रान्तस्तस्थिवान् स मुनिश्चिरम् ||२४|| “शब्दोऽयं नियतं ब्राह्मी - सुन्दर्योः श्रुतिसुन्दरः । भाषेते चानृतं नैते, न चारूढोऽस्मि हस्तिनम् ॥२५॥ विकल्पं कल्पयन्नेवं, दध्यौ वन्दे लघून् न यत् । मानोऽयमेव मे हस्ती, तत्राऽऽरूढोऽस्मि धिग् ! जडः ||२६|| सत्यं मत्वेति तातेन, दयां मयि वितन्वता । व्रतिन् प्रतिबोधाय, प्रेषिते शीलसद्मनी ॥ २७॥ केवलज्ञानिनो बन्धून्, लघूनपि गुणाधिकान् । करिष्ये तदहं मूर्ध्नि, पुष्पस्तोमानिवामलान्" ॥२८॥ ध्यात्वेति पादमुद्यम्य, भिन्ने मानमतङ्गजे । अलाभि मुनिसिंहेन, केवलं मौक्तिकं फलम् ॥२९॥ मानेऽथ सर्वथा मुक्ते, स्फुरन्त्या केवलश्रिया । आश्लिष्टस्य तदा तस्य, विलीनं मनसा रसात् ॥३०॥ दिवि दुन्दुभयो नेदुरभवन् पुष्पवृष्टयः । प्राप्तास्तं वन्दितुं भक्तिभासुराश्च सुरा - ऽसुराः ||३१|| अथो परिवृतः श्रीमान्, सुरसार्थैर्महामुनिः । जगदीशस्य समवसरणं प्राप पापभित् ||३२|| प्रभुं प्रदक्षिणीकृत्य, गत्वा केवलिपर्षदि । उपाविक्षन्मुनिर्मुक्तालतायामिव नायकः ||३३|| आरुरोहान्यदा स्वामी, स्पष्टमष्टापदाचलम् । समं मुनीन्द्रैः पूर्वाद्रिं, नक्षत्रैरिव चन्द्रमाः ||३४|| त्रिविष्टपसदस्तत्र, विदधुर्देशनासदः । प्रभुश्चतुर्मुखीभूय, तस्मिन् धर्ममुपादिशत् ॥३५॥ ततः समं समायातौ, भरतेश- सुरेश्वरौ । निन्यतुः कर्णपूरत्वं, विभोर्वचनपल्लवान् ॥३६॥
१. आरोहदन्य खंता० ॥
D:\maha-k.pm5 \ 2nd proof