________________
पञ्चमः सर्गः]
[१११
जगज्जनानुरागेण, स्फूर्जतेव समन्ततः । मुनिरासीत् किलाऽऽताम्रो, न पुनस्तपनातपात् ॥११।। पश्यन्नस्य तपस्तीव्रमाग्नेयास्त्रमिवोदितम् । रविरुल्लासयामास, जलदास्त्रं तपात्यये ॥१२॥ चक्रिदण्डनिपातं यस्तृणायापि न मन्यते । प्रभवन्तु कुतस्तस्मिन् , धारादण्डाः पयोमुचाम् ? ॥१३॥ ऊढप्रतिज्ञाभारोऽयं, न वोढुं शक्यते मया । इतीव पन्नगेन्द्रेण, प्रेरिताः फणिनां गणाः ॥१४॥ रसातलोद्गताः श्यामाः, कुटिलभ्रान्तिशालिनः । दध्रुः सर्वाङ्गमुल्लास्य, तं लताततिकैतवात् ॥१५।। युग्मम् ॥ शिलीमुखगणैर्बाणासनान्तर्विनियोजितैः । तस्य क्षोभाय संरम्भमथाऽऽरेभे घनात्ययः ॥१६॥ अथ सत्त्वाद्भुतेनास्य, जलैरप्यमलाशयैः । अहासि शरदि प्रीतैर्विकस्वरमुखाम्बुजैः ॥१७॥ शुक्लध्यानेऽमुनाऽऽरब्धे, भ्रष्टकेकिच्छदच्छलात् । शेषध्यानमहांसीव, महीपीठे शुचाऽलुठत् ॥१८॥ मुनेर्यश:प्रतापाभ्यामिव नैर्मल्यमर्जितम् । क्रमादम्बुदमुक्तेन्दु-भानुमन्मण्डलच्छलात् ॥१९॥ अथ सम्प्रेषिते ब्राह्मी-सुन्दर्यो नाभिसूनुना । ज्ञानाधीशप्रवेशार्हतन्मनःसौधशुद्धये ॥२०॥ कुञ्जरादुत्तर भ्रातर् !, वाच्यमेतदिति प्रभुः । शिक्षां ददौ तयोर्यान्त्योर्ज्ञानश्रीकृष्टिमन्त्रवत् ॥२१॥ स्थानं तदथ ते याते, न मुनीशमपश्यताम् । दृष्टो गुल्मस्तु वल्लीनां, सोच्छ्वासः पुरुषाकृतिः ॥२२।। तत्र सम्भाव्य तं ताभ्यामुक्तां शुश्राव तां गिरम् ।
पार्श्वस्थगुप्तकैवल्यलक्ष्मीकर्णेजपां मुनिः ॥२३।। १. °ला भ्रा खंता० ॥
D:\maha-k.pm5\2nd proof