________________
चतुर्थः सर्गः]
[१०७ सस्मयं भस्मयिष्यामि, सचक्रं चक्रवर्तिनम् । इत्युत्पाट्य क्रुधा मुष्टिं, सुनन्दाभरधावत ॥३७४।। गतो वक्त्रं हहा ! चक्रवर्त्यसौ समवर्तिनः । ईदृक् कलकलारावो, बभाराम्बगह्वरम् ॥३७५।। "अत्रान्तरे विवेकार्कतेजःशाम्यन्मनस्तमाः । दध्यौ प्रवीरतामानी, मानी नाभेयसम्भवः ॥३७६॥ जगतीं जिष्णुरप्येष, योधैः क्रोधादिभिर्जितः । तदन्यविजितं जेतुमेतं धिग् ! धिग् ! ममोद्यमम् ॥३७७॥ तज्जयामि यदि प्रेतानेतान् जितजगत्रयान् । सत्यं तत्तनजन्माऽस्मि, तस्य विश्वप्रभोरहम" ॥३७८॥ स ध्यात्वेति नवद्वारे, पुरे तेषां सदास्पदे । शिर:परिसरादुच्चखान तत् केशकाननम् ॥३७९॥ निवार्य सर्वव्यापारानसौ निश्चलनिश्चयः । स्वतन्त्रस्तत्र पाना-ऽन्नप्रवेशमरुधत् ततः ॥३८०।। बन्धवो लघवः सर्वे, केवलज्ञानशालिनः । कथं वन्द्या मया साक्षाद् , गत्वा तातस्य सन्निधौ ? ॥३८१।। तत् प्राप्य केवलज्ञानमिहैवानन्दमन्दिरम् । भूत्वा समः स्वबन्धूनां, गन्ताऽहं तातसंसदि ॥३८२।। निश्चित्येति चिरं चित्ते, तत्रैव कृतवान् कृती । कायोत्सर्गविधि मोहमहीपतिजयोर्जितः ॥३८३।। तं तथास्थितमालोक्य, बान्धवं वसुधाधवः । विषण्णः कर्मणा स्वेन, बाष्पविलविलोचनः ॥३८४।। "धिगेतच्चक्रवर्तित्वं, बन्धुभिर्विरहो यतः । किं तेन काञ्चनेनापि, येनाऽऽशु त्रुटति श्रुतिः ? ॥३८५॥ मन्ये धन्यमहं काकं, साकं यः स्वजनैर्निजैः ।
अप्यल्पां बलिमादत्तो, नात्मानं त्यक्तबान्धवम् ॥३८६॥ १. रानुच्च° पाता० ॥
20
25
D:\maha-k.pm5\2nd proof