________________
5
10
151
20
25
१०८]
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् या निजैर्बन्धुभिः साकं, संविभज्य न भुज्यते । पुंसः श्रियमिमां मेने, विधिर्व्याधिमिव व्यधात्" ॥३८७॥ इति ध्यायन् विषण्णात्मा, बन्धुमध्यात्मबन्धुरम् । निपत्य पादयोश्चक्री, निजगाद सगद्गदम् ||३८८॥ "सूनुस्त्वमेव तातस्य, नाहं हतकविक्रमः । वध्ये मयि दयालुर्यः, शमं सोम ! समासदः ॥ ३८९ ॥ हतकोऽहं पुरा मुक्तः, समग्रैरपि बन्धुभिः । एकं त्वमपि मुञ्चन् मां, तात ! मा कृपणं कृथाः ॥३९०॥ तात ! राज्यमिदं पातु, ताततुल्यगुणो भवान् । चक्रवर्त्यपि वर्तिष्ये, तवाहं वाहनोपमः ॥३९१॥ स्वचेष्टिताग्निसन्तप्ते, मुञ्च वागमृतच्छटाम् । मयि प्रलपति भ्रातर् !, देयाकर ! दयां कुरु" ॥३९२॥ वदन्निति नतश्चक्री, सचिवैरुच्यते स्म सः । नाथ ! बाहुबलिः सोऽयं, न वक्ता निश्चितव्रतः ||३९३|| इति तद्वचनैश्चक्री, जानन् बान्धवनिश्चयम् ।
उन्मुखः साश्रुदृक् पादन्यस्तहस्तोऽवदत् पुनः ॥ ३९४॥
न चेद्दास्यसि तन्मा दा, वाचं वाचंयमाग्रणीः ! | किं प्रसन्नादिदानेऽपि, काऽपि स्यादवकीर्णता ? ॥ ३९५ ॥ अथ तुष्टिसुधावृष्ट्या, दृष्ट्या किञ्चिन्मुनीश्वरः । अपश्यद् भरतं हर्षोदञ्चिरोमाञ्चकञ्चकम् ॥३९६॥ अथ नेत्राम्बुसम्पातनिर्धोतौ शमिन क्रमौ । केशपाशेन सम्मार्ज्य, निर्ययौ भरतेश्वरः || ३९७॥ ततः सोमयशाः सोमयशा बाहुबलेः सुतः । स्वयं तक्षशिलाराज्ये, भरतेनाभ्यषिच्यत ॥ ३९८॥ ततः समं समग्रेण बलेन बलिनांवरः । ययावयोध्यां चक्रं च, विवेशायुधवेश्मनि ॥ ३९९॥ १. सार्धं, सं° खंता० पाता० ॥ २. दयाङ्कुर ! पाता० ॥
D:\maha-k.pm5\ 2nd proof