________________
१०६]
[सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् बन्धुना चन्दनस्यन्दैः, सिक्तश्चन्द्रकरैरिव । कैरवाकरवन्मूर्छामथामुञ्चत चक्रभृत् ॥३६१।। निश्चित्याथ प्रचण्डेन, दण्डेन समरोत्सवम् । अधावतामुभौ भीष्मौ, धृतदण्डौ यमाविव ॥३६२।। ततः शिरसि दण्डेन, हतो भरतभूभुजा । सुनन्दासूनुराजानु , ममज्ज भुवि कीलवत् ॥३६३।। अथ मग्नौ क्रमौ तस्माद् , भूतलात् पङ्किलादिव । लीलयैव क्रमेणायमद्दधार धराधवः ॥३६४॥ तद् बाहुबलिना मौलौ, दण्डेन भरतो हतः । ममज्ज लज्जयेवोच्चैराकण्टमवनीतले ॥३६५|| बभूव क्षितिमग्नस्य, चक्रिणः स्फुटमाननम् । शोकश्यामं निजयश:शशिग्रासेन राहुवत् ॥३६६।। मग्नो गर्तादथाकर्षि, चक्री कोहालिभिर्भटैः । उत्तमणैरिव प्रत्यदेयवित्तोऽधमर्णकः ॥३६७।। आससाद विषादस्तद् , भरतं परितो जितं । चक्री नाहमसौ चक्री, ध्यायन्तमिति चेतसि ॥३६८।। अथाकस्मात् करेऽमुष्य, चक्रित्वभ्रान्तिभित्तये । आरुरोह ज्वलच्चक्रं, रविबिम्बमिवाम्बरे ॥३६९।। तेन पार्श्वगतेनोच्चैश्चक्री चक्रेण सोऽज्वलत् । मार्तण्डमण्डलेनेव, मार्तण्डोपलपर्वतः ॥३७०।। अथ ज्योतिःपथे सुस्थाँस्त्रासयस्त्रिदिवौकसः । वधाय बन्धोनि:शङ्कश्चक्री चक्रं मुमोच तत् ॥३७१ ॥ कल्याणशालिनो बाहुबलेर्मेरोरिव व्यधात् । चक्रं प्रदक्षिणाचक्रं, चक्रबान्धवबिम्बवत् ॥३७२।। गोत्रे न प्रभवत्येव, चक्रमित्यवलिष्ट तत् । अमोघमप्यनिष्पन्नचक्रवर्तिमनोरथम् ॥३७३।।
D:\maha-k.pm5\2nd proof