________________
चतुर्थः सर्गः ]
उभावभिमुखौ तत्र, निमेषविमुखेक्षणौ । प्रत्यूषपूष-पूर्णेन्दुविभ्रमं बिभ्रतुश्चिरम् ॥३४८॥ निरीक्ष्य निर्निमेषत्वं, समरं यातयोस्तयोः । तदाद्यनिमिषीभावं, मन्ये मन्युभुजोऽभवन् ॥३४९॥ सन्तप्ते सोष्मणो बाहुबलेरालोकनाच्चिरम् । स्नपयित्वाऽश्रुभिश्चक्री, प्रावृणोत् पक्ष्मणा दृशौ ॥३५०॥ अहो ! जितं जितं बाहुबलिना बलिनाऽमुना । इत्थं कलकलं चक्रुस्तदा विजयसाक्षिणः ||३५१|| दृक्सङ्ग्रामजितेनाथ, समं भरतभूभुजा । प्रारेभे शब्दसमरं, दक्षस्तक्षशिलाविभुः ||३५२॥ विवस्वदश्ववित्रासी, शशिसारङ्गभङ्गकृत् । चक्रिणा सिंहनादोऽथ, लोडितः क्रोडिताम्बरः || ३५३ || चमत्कारिणि विश्वानां, विरते भरतध्वनौ । सिंहनादो महान् बाहुबलिनो व्यानशे दिशः || ३५४ ॥ क्षयाब्दगर्जिसंवादे, नादे तस्मिन् विसर्पति । अभूदकालकल्पान्तशङ्कातङ्कातुरं जगत् ॥३५५|| त्रुट्यत्पर्वतखण्डेन, क्षुभ्यदम्भोधिनाऽधिकम् । विजिग्ये तेन शब्देन, भूयो भरतभूपतिः ॥ ३५६॥ अथ हस्तप्रहारेण, रणं निश्चित्य दुर्मदौ । तावपासरतां शक्तिधन्यौ वन्यौ गजाविव ॥ ३५७|| भरतेनाऽऽहतः प्राणपुष्ट्या मुष्ट्याऽथ मूर्धनि । क्षणं बाहुबलिर्ध्वान्तैर्वव्रे रविरिवाम्बुदैः ||३५८|| सद्वृत्तस्येव कौलीनं, मुनेर्मन्युरिव क्षणात् । ययौ शशधरस्येव, राहुर्बाहुबलेस्तमः ॥३५९॥
ततो बाहुबलेर्मुष्टिवज्रपातेन ताडितः । पपात शैलवच्चक्री, समं सैन्यमनोरथैः ॥३६०॥ १. 'भ्यत्पाथोधिना खंता० ॥
D:\maha-k.pm5 \ 2nd proof
[ १०५
5
10
15
20
25