________________
5
10
15
20
25
१०४]
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् अहो ! धिगिदमायातं, सङ्कटं स्वामिनोऽधुना । समं श्रीबाहुबलिना, बलिना सह यो रणः ||३३५॥ नियुद्धबुद्धिदानेऽस्मिन् दोषः को वा दिवौकसाम् ? | ईदृशानां मुधा नाम, कौतुकं को न पश्यति ? ॥३३६|| जानता भुजयोर्वीर्यमनुजस्य महीभुजा । एतन्मेने न जानीमस्तत् काऽपि भवितव्यता ? ||३३७|| स्वसैनिकानां श्रुत्वेति, गिरो भरतभूपतिः । बलं दर्शयितुं स्वस्य, तानाहूययेदमब्रबीत् ॥३३८॥ मया दृष्टोऽद्य दुःस्वप्नः, किल शृङ्खलमण्डलैः । बद्ध्वाऽऽकृष्य तटाद् भूपाः, कूपान्तर्मामपातयन् ॥ ३३९॥ अशिवस्य विभेदाय, स्वप्नार्थोऽयं ततोऽधुना । अवश्यं सत्यतां नेयो, भवद्भिर्बलशालिभिः ||३४०|| अनिच्छतामिदं राज्ञां प्रभोर्व्यसनसाहसम् । आज्ञां दत्त्वा स राजेन्दुः, कूपमेकमकारयत् ॥३४१॥ अवस्य तटे तस्य निविष्टो भरतेश्वरः ।
शृङ्खलानां सहस्रेण, वामहस्तावलम्बिना ||३४२ ॥
सर्वसैन्याभिसारेण, सर्वैरुर्वीभुजां गणैः ।
सर्वस्थाम्ना समालम्ब्य समाकृष्यत भूपतिः || ३४३|| युग्मम् ॥
ससैन्यानपि राजन्यान्, शृङ्खलासु विलम्बिनः । रोमभ्यो नाधिकान् मेने, बलवान् भरतेश्वरः || ३४४॥ हृद्यं हृद्यङ्गरागं स, तेने तेनैव पाणिना ।
पेतुस्ते तु समं दत्तसङ्केता इव भूभुजः ||३४५|| दृष्टेन च बलेनास्य, सम्भावितपराक्रमाः । भूभुजो भेजिरेऽम्भोजस्मेरवक्त्रास्तदा मुदम् ||३४६|| SS अथ श्रीबाहुबलिना, समं समरसीमनि ।
प्रथमं दृष्टियुद्धाय, प्रतिज्ञां कृतवान् नृपः ॥ ३४७।। १. तानह्नाये खंता० ॥
D:\maha-k.pm5\ 2nd proof