________________
10
चतुर्थः सर्गः]
[१०३ विनष्टं न तदद्यापि, किमप्यस्ति महौजसः । दूरादपसरत्वेष, वलितोऽस्मि रणादहम् ॥३२२॥ अपरक्ष्मापसामान्यामाज्ञां कर्तुमयं पुनः । मयि क्रोधोद्धतं धावन् , दन्तीवाद्रौ भविष्यति ॥३२३।। तदनिष्टफलो भाति, मन्त्रहीनस्य निश्चितम् । वह्निमुष्टिन्धयस्येव, नरेन्द्रस्यायमुद्यमः ॥३२४।। ऋते न तातपादाँस्तु , स्वामी मम भवेत् परः । विना दिनाधिपं किं स्यात् , कोकस्यान्यः प्रियाकर: ? ॥३२५॥ अथाऽऽहुरमरा: श्रीमन् !, निस्सीमगुणगौरव ! । कार्येऽत्र विशदाऽप्येषा, नास्माकं क्रमते मतिः ॥३२६।। एकतश्चक्रिणश्चक्रं, त्वत्प्रणामसमीहया । न विशत्यायुधागारं, बिभ्राणमकृतार्थताम् ॥३२७॥ अन्यतस्तव पश्यामः, सर्वथा विनयं वयम् । तत् किं युक्तं भवेद् वक्तुमस्माकं जगतीपते ! ? ॥३२८॥ अभ्यर्थयामहे किन्तु , भवन्तं भुवनप्रभो ! ।। युद्धेन न हि योद्धव्यं, प्राणिप्राणापहारिणा ॥३२९।। दृग्-वाग्-दण्डादियुद्धेन, बलाबलपरीक्षणम् । कृत्वा जयो व्यवस्थाप्यः, साक्षिणोऽमी भवामहे ॥३३०।। तथेति प्रतिपेदाने, प्रार्थनां नाभिनन्दने ।
नातिदूरस्थितास्तस्थुर्मध्यस्थास्ते दिवौकसः ॥३३१।। $$ अथ स्वामिसमादेशादारुह्य करिणो रणात् ।
जवान्निवारयामासुर्नृपयोः पुरुषा भटान् ॥३३२॥ राजाज्ञामथ राजन्याः, सेनयोरुभयोरपि । श्रुत्वा ववलिरे कष्टं, रुष्टा मुष्टा इवाहवात् ॥३३३।। श्रुत्वा सङ्गरमङ्गाङ्गि, सैनिकास्तेऽथ चक्रिणः ।
परस्परमिति प्रोचुः, शोचन्तो देवमन्त्रितम् ॥३३४।। १. नां पृथिवीपतौ । नाति° खंता० ।।
20
D:\maha-k.pm5\2nd proof