________________
5
10
151
20
25
१०२]
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम्
न दो: कण्डूभरच्छेदबुद्धिर्युद्धे निबन्धनम् । हेतुः किन्तु रथाङ्गस्याप्रवेशः शस्त्रमन्दिरे ||३०९॥ अनुप्रविश्य मां शस्त्रगृहे चक्रं प्रवेश्य च । षट्खण्डभरतक्षेत्रपतिर्भूयान्ममानुजः ||३१०|| अनेन वचसा बाहुबलिं बोधयताधुना । यदि युद्धनिषेधाय, युष्माकमयमुद्यमः ||३११॥ अथोचुस्ते पुनर्देवा, यद्यसौ न हि बुध्यते । तथापि नास्त्रैर्योद्धव्यमाज्ञाऽत्र ऋषभप्रभोः ॥३१२॥ दृष्टि-वाग्-दण्ड-दोर्दण्डयुद्धैरेव बलाबलम् । युवयोर्ज्ञास्यते किं तदायुधैर्दारुणै रणे ? ॥३१३॥ ओमित्युक्तवति क्ष्मापे, ततो जग्मुर्दिवौकसः । नृपं बाहुबलिं मूर्तमिव वीररसं प्रति ॥३१४॥ जयेत्याशिषमुद्दाम्नीं, दत्त्वा प्रीतेन चेतसा । सुधामधुमुचा वाचा, प्राहुर्बाहुबलिं सुराः || ३१५ | ज्यायानयं नयोत्तंस !, किं न सत्क्रियते त्वया ? | संरम्भः किमयं वीर !, भरतं प्रति सम्प्रति ? || ३१६ || जेया रागादयस्तावद्, ये युगादिजिनेशितुः ।
तदङ्गजस्य ते तात !, पोषस्तेषां किमु क्षमः ? ॥३१७॥ नतिमात्रेण यत् तोषं, भजत्येष तवाग्रजः । कथङ्कारं तमाराध्य, नात्मसात् कुरुषे क्षमाम् ? ||३१८॥ अथ बाहुबलिः प्राह, सुरान् गम्भीरया गिरा । इत्थं कथमविज्ञातवस्तुतत्त्वैरिवोच्यते ? ॥३१९॥ यद्यसौ भ्रातृभावेन, मत्तः सत्कारमिच्छति । युक्तं तदेष यत् तातसम एव ममाग्रजः || ३२०|| परं प्रौढप्रतापत्वाज्जितकाशितया तया । आक्रम्य नमयेद् यन्मां, न तदेतदहं सहे ॥ ३२१॥
D:\maha-k.pm5 \ 2nd proof