________________
चतुर्थः सर्गः]
[१०१ अश्वानामश्ववाराणामप्यङ्गमिलितैमिथः । शिरोभिः पतितैयुद्धं, किन्नराणामिवैक्ष्यत ॥२९६।। दन्तिदन्ताग्रसङ्घट्टजन्मा वह्निकणोत्करः । रेजे रजोघनध्वान्तखेलत्खद्योतपोतवत् ॥२९७।। प्रस्थानानि सुबाहूनामिव प्रीताः सुरस्त्रियः । भटानां भाविभर्तृणां, स्रजः कण्ठेषु चिक्षिपुः ॥२९८।। बिभ्रद्भिः शुशुभे खड्गलेखां धूमशिखासखीम् । रुषाऽरुणैर्भटैर्भर्तुर्मूर्तेस्तेजोऽनलैरिव ॥२९९।। अथ बाहुबले: सैन्यैर्भरतेशस्य वाहिनी । कल्लोलिनीशकल्लोलैरिव पश्चाद् व्यधीयत ॥३००॥ पुरस्कृतसुषेणोऽथ, रणाय भरतेश्वरः । स्वयं रविरिवोत्तस्थेऽग्रेसरारुणसारथिः ॥३०१॥ युद्धश्रद्धालुमालोक्य, ज्यायांसं भ्रातरं परः । तुल्यं बाहुबलि पोऽभूदोक: शोक-हर्षयोः ॥३०२॥ गृहीतरणदीक्षोऽथ, प्रज्वलन्निव तेजसा । रवेः समः समारोहत् , कुञ्जरं राजकुञ्जरः ॥३०३।। तौ स्वयं जगतीमल्लौ, वीक्ष्य युद्धोद्यतौ तदा ।
हन्त ! चेतांस्यकम्पन्त, त्रिविष्टपसदामपि ॥३०४।। ६ अथो भरतमभ्येत्य, दत्त्वाऽऽशीर्वादमादरात् ।
देवा एवमवोचन्त, प्रशान्तं स्वान्तशान्तये ॥३०५।। षट्खण्डभरतक्षेत्रविजये तव सर्पतः । सम्मुखीनोऽभवत् कश्चिन्न चेन्नाभेयनन्दन ! ॥३०६।। दोर्दण्डकण्डूभेदाय, तत् किं नाम महाभुज ! । निजेन बन्धुना साधु, युद्धसज्ज ! न लज्जसे ? ॥३०७॥ युग्मम् ।। अथाऽऽह चक्री गीर्वाणाः !, युक्तमेतद् भवद्वचः ।
किन्तु सम्यग् न जानीथ, बन्धुना रणकारणम् ॥३०८।। १. स्वबा खंता० ॥
25
D:\maha-k.pm5\2nd proof