________________
९८]
[ सङ्घपतिचरितापरनामकं धर्माभ्युदयमहाकाव्यम् अटवीं तामथोल्लङ्घय, कथञ्चिदतिभीषणाम् । चक्रिणो देशमासाद्य, स्वं मेने स पुनर्नवम् ॥२५७।। अपक्वान्यपि धान्यानि, लुनीत ननु रंहसा । अपूतान्यपि गुप्तासु , क्षिपत क्षोणिखानिषु ॥२५८।। अतिभारसहानुच्चैः, शकटान् कुरुतोत्कटान् ।। लभ्य-देयानि सङ्कोच्योच्चलितुं भवतोद्यताः ॥२५९।। यस्माद् भरतभूपालमभिषेणयितुं बली । श्रूयतेऽभ्युद्यतो बाहुबलिर्बाहुबलोन्मदः ॥२६०।। प्रतिक्षेत्रं प्रतिग्रामं, चक्रिदेशनिवासिनाम् । व्याकुलत्वं विलोक्येति, चिन्तयामासिवानसौ ॥२६१।। कलापकम् ।। अहो ! विग्रहवार्तेयमस्मत्तो वेगवत्तमा । अग्रे भूत्वा यतः कश्चिन्नागतः श्रूयते त्वसौ ॥२६२।। अहो ! प्रौढप्रतापत्वं, श्रीबाहुबलिभूभुजः । स्वस्थानस्थेऽपि यत् तस्मिन्नस्माकं भयमीदृशम् ॥२६३।। चिन्तयन्निति सम्प्राप्तो, विनीतायां स नीतिमान् । विज्ञो विज्ञपयामास, यथावन्नृपतेः पुरः ॥२६४।। पटाञ्चलेन चेद् भानुश्छाद्यः स्यात् तरुणच्छविः । यदि ज्वालाकुलो वह्निर्भवेद् ग्राह्यश्च मुष्टिना ॥२६५॥ तवानुजस्तथाप्येष, स्वामिन् ! षट्खण्डभूपते ! ।
उत्कर्षिपौरुषो नान्यैर्जेतुं शक्यः सुरैरपि ॥२६६॥ युग्मम् ॥ ६६ श्रुत्वेति भरताधीशः, सोत्साहो मन्त्रिभाषितैः ।
प्रयाणं कारयामास, पुरीं तक्षशिलां प्रति ॥२६७।। सम्पन्नपुलका कुन्तैः, स्विन्ना करिमदाम्बुभिः । स्वैरं भर्चा बलाक्रान्ता, चकम्पे काश्यपी तदा ॥२६८।। मारुतस्य मुखे धूलिं, क्षिपन्तश्चरणोद्धृताम् ।
वाजिनः परितोऽधावन् , सत्वराः सत्त्वराजिनः ॥२६९।। १. सङ्क्षिप्योच्च खंता० पाता० ॥
15
25
D:\maha-k.pm5\2nd proof