________________
[९९
10
चतुर्थः सर्गः]
द्विषद्यशोमहश्चन्द्र-भानुच्छादनहेतवे । वहन्तो मेघलेखावत् , खड्गान् वीरास्तदाऽचलन् ।।२७०।। वंशनासास्तुरङ्गाक्षाः, पताकातिलकास्तदा । प्रचेलुश्चक्रताडङ्का, रथाः सेनाननश्रियः ॥२७१।। स्थिरामस्थिरयद् वेगात् , तच्चचाल बलं तदा । उद्यद्धूलिभरैरब्धि, गम्भीरमगभीरयत् ॥२७२।। बहलीदेशसीमानमसमानपराक्रमः । आचक्राम क्रमाच्चक्री, वियद्देशमिवांशुमान् ॥२७३।। ज्ञात्वा तत् परिघोत्तालबाहुर्बाहुबलिर्बलम् । प्रेरयामास कल्पान्तोत्पातवात इवोदधिम् ॥२७४।। तद्भेरीनलिकायन्त्रप्रेरितैः समिरोमिभिः । भटाः प्रदीपितक्रोधवह्नयश्चेलुरुच्चकैः ॥२७५।। नेदुस्तदा रिपुप्राणप्रयाणपटहोपमाः । निःस्वानप्रकरा: शब्दैरुदरम्भरयो दिशाम् ॥२७६।। संसिच्य मदपाथोभिः, संवीज्य श्रुतिमारुतैः । करिणः कम्पयामासुः, शीतार्तामिव मेदिनीम् ॥२७७॥ खनन्ति स्म खुरैः क्षोणिं, जवना वाजिराजयः । आक्रष्टुमिव पानीयं, सेनायास्तृप्तिहेतवे ॥२७८॥ तरङ्गैरिव सध्वानैर्बलैर्बाहुबलिस्ततः । महीमाच्छादयामास, कल्पान्तभ्रान्तवाद्धिवत् ॥२७९।। उपान्ते चक्रिसेनायाः, सेनामयमवासयत् । प्रातस्तिमिरधोरण्यां, शूरोऽनूरुप्रभामिव ॥२८०।। गाम्भीर्यं दर्शयन्तोऽपि, तदा सैन्यैः कदर्थिताः । तत्कालं कलयामासुः, कलुषत्वं जलाशयाः ॥२८१।। स्थूला स्थुलततिस्तेने, तदा गुरुगिरिश्रियम् ।
तटार्गलितमातङ्गगण्डशैलाऽतिदुर्गमा ॥२८२।। १. प्रेषया वता० ॥ २. सूरो पाता० ॥
20
25
D:\maha-k.pm5\2nd proof