________________
10
चतुर्थः सर्गः]
[९७ पुरा कारासुखं प्राप, यत्रास्मद्भुजपञ्जरे । तत् किं विस्मृतमेतस्य, चाटुकृच्चाटुगर्विणः ?" ॥२४४॥ तद् गच्छ त्वं समायातु , स स्वयं भवतः प्रभुः । यथाऽस्य गर्वदुष्कर्मप्रायश्चित्तं करोम्यहम् ॥२४५।। दूतोऽथ धैर्यमालम्ब्य, सभयः स सभागृहात् । निस्सासार सभासद्भिः, कूणिताक्षं विलोकितः ॥२४६॥ सज्जीकृतायुधान् वीरान् , मृत्युभृत्यानिवोद्यतान् । पश्यन् सुवेगो वेगेन, निरगान्नृपमन्दिरात् ॥२४७॥ नवः क इव दूतोऽयं, भरतस्य महीभुजः ? । किमन्योऽपि नृपो ज्येष्ठः, स्वामिनोऽस्यैव बान्धवः ॥२४८।। क्वेयत्कालं गतः सोऽभूज्जयाय भरतक्षितेः ? । अत्रामुं स कुतः प्रैषीदनुजाकारणेच्छया ? ॥२४९।। अस्य बन्धौ किमुत्कण्ठा ?, न किन्तु प्राभवस्पृहा । मन्त्रे किं नाखुरप्यस्य, शतश सन्ति मन्त्रिणः ? ॥२५०।। तैः स किं बलिनं सिंह, खलीकुर्वन्न वारितः ? । प्रत्युत प्रेरितोऽमीभिर्बुद्धिः कर्मानुसारिणी ? ॥२५१।। जितं किं हारयत्येष, षट्खण्डं मण्डलं भुवः ? । जितकाशितया वेत्ति, न मूढः प्रौढिमात्मनः ॥२५२॥ इत्थं पथि कथाः शृण्वन् , मिथः पौरमुखोद्गताः । दूरादुल्लङ्घयामास, सुवेगो नगरीमिमाम् ॥२५३।। षड्भिः कुलकम् ॥ 20 क्रमेणाथ प्रयातोऽयमटवीं भिल्लसङ्कलम् । श्रीबाहुबलिभूपालबलैराटविकैर्वृताम् ॥२५४॥ तत्र शार्ङ्गधरान् काँश्चित् , पशुस्पर्शपरान् परान् । एकानश्मायुधानन्यान् , कुन्तदन्तुरिताम्बरान् ॥२५५।। अयं मूर्तानिवोत्साहान् , श्रीबाहुबलिभूभुजः ।
भिल्लानालोकयामास, सुवेग: कम्पिताकृतिः ॥२५६।। १. °क्षं निरीक्षितः खंता० पाता० ॥
25
D:\maha-k.pm5\2nd proof