________________
10
चतुर्थः सर्गः]
[९१ श्रुत्वेति देशनां भर्तुर्लक्ष्मीसुखपराङ्मुखाः । अथाष्टनवतिर्भेजुस्ते व्रतं भरतानुजाः ॥१६७।। दूतास्ततो निवृत्त्याथ, स्वामिने विस्मयस्मिताः । सोदराणां यथावृत्तं, वृत्तान्तं ते व्यजिज्ञपन् ॥१६८॥ अथ प्राज्यानि राज्यानि, तेषां भरतभूपतिः ।
जग्रसे सकलान्येष, सर्वान्नानीव भस्मकी ॥१६९॥ ६६ अपरेधुर्नृपश्रेणीवेणीसम्मार्जितक्रमम् ।
व्यजिज्ञपन्नृपं नत्वा, सुषेणो गर्वपर्वतः ॥१७०॥ कृत्वाऽपि दिग्जयं स्वामिश्चक्रमायुधमन्दिरे । एतद् विशति नाद्यापि, यथा शिष्यः शठो मठे ॥१७१॥ अथ सर्वोपधाशुद्धबुद्धिः सचिवपुङ्गवः । उवाच वाचमाचार्य, इव मावासवाग्रतः ॥१७२।। स्वामिन् ! को नाम दिग्यात्राकर्तरि त्वयि भर्तरि । तिष्ठेताद्यापि ? चण्डांशौ, तमस्काण्डं कियच्चिरम् ? ॥१७३।। आः ! ज्ञातमथवा स्वामिन्नवश्यं न वशंवदः । स बाहुबलिभूपालस्तवैवावरजो बली ॥१७४॥ अपि विश्वं स सामर्षः, सवायुरिव पावकः । विश्वं दग्धुमलं खड्गधूमान्धीकृतशात्रवः ॥१७५।। षटखण्डं भरतक्षेत्र जित्वाऽपि जगतीपते । । अजित्वा तं जगद्वीरं, वास्तवस्तव कः स्तवः ? ॥१७६।। एतस्याविजये देव !, दिग्जयव्याजतस्त्वया । अस्मिन् षट्खण्डभूखण्डे, कृतं देशान्तरेक्षणम् ॥१७७।। तदेष देव ! भवतो, युज्यते प्राज्यतेजसः । नोपेक्षितुं क्षितिस्वामिन् !, नमितामितशात्रवः ॥१७८।। अथ प्रथमतो न त्वं, बान्धवं बन्धुवत्सल ! ।
25 योद्धमुत्सहसे दूतं, तत् कञ्चित् प्रेषयाधुना ॥१७९।। १. से निखिलान्येष खंता० पाता० ॥ २. मठम् पाता० ॥ ३. `त्सलः खंता० पाता० ॥
15
20
D:\maha-k.pm5\2nd proof